पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
355
विषमालङ्कारसरः (४०)

भिहता । भूत्वाऽसौ रमणीमणि कमले पशुकण्ठबन्धयोग्याऽऽसीत् ॥ ११९२ ॥

 हे रमणीमणि कमले! असौ तेजस्वितया प्रत्यक्षदृश्या सौदामनी विद्युत् सुदाम्ना अद्रिणा एकदिगिति विग्रहे ‘तेनैकदिक्’ इति प्राग्दीव्यतीये अणि ‘अन्’ इति नकारस्य प्रकृतिभावे ‘टिड्ढाण्' इति ङीप् । त्वद्वज्रकण्ठिकायाः श्रियं तद्वद्देदीप्यमानतयाऽजस्रं त्वत्कण्ठावस्थानसौभाग्यमिति भावः । ईप्सुः आप्तुमिच्छुस्सती अत एव मुखे वदने अभिहता प्रहृता भूत्वेति लोकोक्तिः । स्वस्वरूपदुर्लभोत्कर्षलिप्सुतया तया त्वद्वज्रकण्ठिकया मुखोपरिकृतप्रहारेति भावः । पक्षे सौदामनीशब्दव्यक्तिः मुखे प्रथमभागे अभिहता । असौरमणीत्यत्र असौः रमणीतिच्छेदः । ‘रो रि' इति रेफलोपः । अत एव असौः अविद्यमानः सौ इत्याकारकवर्णो यस्यास्सा तथोक्ता भूत्वा । सौकारापनयने दामनीति निष्पन्नेति भावः । नौरितिवदयं शब्दः । पशुकण्ठबन्धनयोग्याऽऽसीत् ‘पशुरज्जुस्तु दामनी’ इत्यमरः। दामैव दामनी । स्वार्थिके अणि प्रकृतिभावङीपौ प्राग्वत् । अत्र सौदामन्याः लक्ष्मीकण्ठाभरणश्रीलाभरूपेष्टसाधनार्थमुद्युञ्जानाया न तदलाभमात्रं किंत्वतिनिहीनपशुकण्ठबन्धनार्हरज्जुतावाप्तिलक्षणोत्कटानिष्टलाभो वर्णितः ॥

 यथावा--

 इष्टार्थलाभलोभादुपसर्पन्त्या व्रजेन्दुवदनायाः । सद्यस्तनलाभेप्सुर्नीवीमपि शौरिरकृत बत शिथिलाम् ॥ ११९३ ॥