पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
354
अलंकारमणिहारे

 रामं सलक्ष्मणं प्राक्प्राप्ता रक्षस्स्वसा वृषस्यन्ती । तन्मध्ये व्यग्राऽभूद्विग्रा नव्यं मुखे विकारमिता ॥ ११९१ ॥

 रक्षस्स्वसा शूर्पणखा वृषस्यंती कामुकी सती ‘अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि’ अश्ववृषयोर्मैथुनेच्छायाम्' इति वृषशब्दात्क्यच्यसुक् । ‘वृषस्यन्ती तु कामुकी’ इत्यमरः । सलक्ष्मणं रामं प्राप्ता । तयोः रामलक्ष्मणयोर्मध्ये व्यग्रा तत्परिहासवचनैराकुला । ततस्साहसप्रवृत्त्या विग्रा विगता नासिका यस्यास्सेति बहुव्रीहौ 'वेर्ग्रो वक्तव्यः' इति विशब्दोत्तरस्य नासिकाशब्दस्य ग्रादेशः । ‘विग्रो विगतनासिकः' इत्यमरः । लक्ष्मणेन च्छिन्ननासिकेति भावः । अत एव मुखे वदने नव्यं अपूर्वं विकारं विकृतिं इता प्राप्ता अभूत् । इणः कर्तरि क्तः । अत्र व्यग्रेतिशब्दः मुखे आदौ नव्यं नविद्यमानो व्य इति वर्णसमुदयो यस्मिन् कर्मणि तद्यथास्यात्तथा । नशब्देन समासः । विकारं तत्रैव वि इत्याकारकं वर्णं इता सती विग्राऽभूदिति योजना । विग्रेति निष्पन्नेत्यर्थश्चमत्कारी । अत्र सलक्ष्मणं राममुपभोगसुखसाधनरूपस्वेष्टसिद्ध्यर्थमुपसर्पन्त्याश्शूर्पणखाया न केवलं तदलाभः अपितु नासिकाच्छेदरूपदुःखसाधनानर्थावाप्तिश्च निबद्धेति लक्षणंसगतिः । अत्रेष्टसाधनतया निश्चितात्कारणादनिष्टकार्यावाप्त्या उत्पत्तिलक्षणसंसर्गस्यानानुरूप्यम् । एवमुत्तरत्रापि ॥

 यथावा--

 त्वद्वज्रकण्ठिकाश्रियमीप्सुस्सौदामनी मुखेऽ-