पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
344
अलंकारमणिहारे

तिरोहितज्ञानानन्दादिस्वभाव इति यावत् । आदित्यः क्व युवयोरौएम्यं दवीय इति भावः । वस्तुतस्तु आदित्यः आदित्यशब्दः आद्यूनः आदि इति वर्णाभ्यां विश्लिष्टः अत्यासङ्गः अविद्यमानः त्य इत्याकारकवर्णसमुदयसबन्धो यस्य स तथोक्तस्सन् स्वस्वरूपविभ्रष्टः आदित्येतिसर्ववर्णापाये निश्शेषितस्वप्रकृतिरिति यावत् । शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । अत्रापि भगवदादित्ययोरनानुरूप्यभाजोर्घटनं श्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढम् ॥

 यथावा--

 आदौ दुग्धं मध्ये भिदुरमथेन्दुस्तु दूषितः पश्चात् । क्वनु तानि जगदधीश्वर! कदाऽप्यदूषितमहो यशः क्व तव ॥ ११७९ ॥

 हे जगदधीश्वर! दुग्धं क्षीरं आदौ प्रथममेव दूषितमिति लिङ्गविपरिणामेन योज्यम् । अविशदमिति जनैः प्रत्याख्यातमित्यर्थः । भिदुरं कुलिशं मध्ये मध्यकाले दूषितम् । अथ किंच इन्दुस्तु पश्चात् अन्ते दूषितः । तानि दुग्धादीनि ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकैकशेषः, क्व । कदाऽपि आदिमध्यावसानसमयेषु जात्वपि अदूषितं तव यशः क्व । तेषामस्य च साधर्म्यं न कदाऽपि घटेतेति भावः । पक्षे-- दुग्धभिदुरेन्दुशब्दाः आदिमध्यावसानेषु क्रमेण दुवर्णघटिता इत्यर्थः । दुः उषितो यस्मिन् स इति विग्रहः, आहिताग्न्यादेराकृतिगणत्वान्निष्ठायाः परनिपातः । यशस्तु यशश्शब्दस्तु कदाऽप्यदूषितमेव दुवर्णसंबन्धस्यैव तत्राभावात् । अत्र दुग्धादीनां भग-