पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
335
असंगतिसरः (३९)

नान्न ‘रदाभ्यां निष्ठातो नः’ इति नत्वं ‘नुत्तनुन्नास्तनिष्ठ्यूतविद्धक्षिप्तेरितास्समाः' इत्यमरः । अत्र विनतजनतामुत्तमां चिकीर्षता भगवता सा अनुत्तमैव कृतेत्यन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकार्यकरणं निबद्धमिति लक्षणसंगतिः । श्लेषदत्तहस्तेयम् ॥

 यथावा--

 माहाकुलतां प्रथयन्माहाकुलतां धुनोषि शौरे ! त्वम् । काळिन्दीं मोदयसे काळिन्दीभेदनेऽनुषक्तोऽपि ॥ ११६४ ॥

 महाकुलस्यापत्यं पुमान् माहाकुलः 'तस्यापत्यम्' इत्यर्थे 'महाकुलादञ्खञौ' इत्यञ् । ‘माहाकुलकुलीनार्यसभ्यसज्जनसाधवः' इत्यमरः । तस्य भावः माहाकुलता तां उत्तमकुलप्रसूततां सज्जनतामित्यर्थः । प्रथयन् 'लक्षणहेत्वोः' इति शता । हेतुरिह फलं प्रथयितुमित्यर्थः । माहाकुलतां कुलीनतां धुनोषीति विरोधः माहानां गवां ‘उस्रा माहा च शृङ्गिणी' इत्यमरः । आकुलता व्यग्रतां धुनोषीति परिहारः । काळिन्द्याः यमुनायाः भेदने भिदायां भिदेर्भावे ल्युट्, अनुषक्तोऽपि काळिन्दीं यमुनां मोदयसे इति विरोधः । काळिन्दीभेदने बलभद्रे । भिदेः कर्तरि नन्द्यादित्वाल्युः अनुषक्तोऽपि काळिन्दीं तन्नाम्नीं दिव्यमहिषीं मोदयसे इति परिहारः । अत्र माहाकुलताप्रख्यापनकाळिन्दीभेदनयोः प्रवृत्तस्य माहाकुलताधूननकाळिन्दीमोदनलक्षणविरुद्धकार्यकरणं श्लेषोत्तम्भितं निबद्धम् ॥

 यथावा--

 पुण्यजनान् संत्रातुं पुरुषोत्तम! भुवि कृतावता-