पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
331
असंगतिसरः (३९)

'विभाषा लीयतेः' इत्येज्विषये आत्वे ‘अर्तिह्री’ इत्यादिना पुगागमः । पक्षे पर्यदेव्यत । ‘विलापः परिदेवनम्' इत्यमरः । विपूर्वकाल्लपतेर्ण्यन्तात्कर्मणि यकि लङ् । अत्र हिरण्यरूपेऽधिकरणे अग्निकर्तव्यस्य विद्रावणस्य विलापनस्य च तद्भिन्ने प्रह्लादत्रासरूपे हिरण्यकशिपुसुदतीबृन्दरूपे चाधिकरणे करणं वर्णितम् । श्लेषभित्तिकाभेदाध्यवसायोत्तम्भितेयम् ॥

 यथावा--

 सूते कटाक्षलक्ष्मीस्सा ते साधुषु समस्तपुरुषार्थान् । व्यातानस्त्विमरिष्टं विश्वविभो तदितरेषु सुस्पष्टम् ॥ ११५७ ॥

 अरिष्टं सूतिकागृहं अशुभं च ‘अरिष्टमशुभे ताम्रे लशुने सूतिकागृहे’ इति रत्नमाला । तदितरेषु असाधुषु । अत्र कटाक्ष लक्ष्मीकर्तृकपुरुषार्थप्रसवाधिकरणेषु साधुषु कर्तव्यस्यारिष्टकरणस्यासाधुषु करणम् । श्लेषसमासोक्त्युपबृंहितेयम् ॥

 यथावा--

 तमसा मलीमसा ये भूयांस्यागांसि ते वितन्वन्ति । सत्त्ववतां दममधिकं स त्वं विदधासि तव नयोऽन्यादृक् ॥ ११५८ ॥

 चतुर्थपादे सः त्वं इति च्छेदः । दमं दण्डं दान्तिं च ‘दमो दण्डे चेन्द्रियनिग्रहे' इति रत्नमाला । अत्राप्यपराधिषु कर्तव्यस्य दमस्यानपराधिषु करणं निबद्धम् । श्लेषव्याजस्तुतिसंकीर्णेयम् ॥