पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
329
असंगतिसरः (३९)

 उदलासीत् प्रकाशते स्म । हृष्यति स्मेति परिहारः । अनयोः श्रीश्रीशयोः तादात्म्यौदार्यं--

अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ।
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥

इति लक्ष्मीतन्त्रोक्ततादात्म्यमहत्त्वं कस्य मोदाय भवेदिति योजना । अत्र हारनिधानं लक्ष्मीवक्षसि, उल्लासस्तु शौरिहृदयस्येति हेतुकार्ययोर्वैयधिकरण्यं निबद्धम् । तत्समाधानाय भगवतो लक्ष्मीतादात्म्यं भगवच्छास्त्रप्रतिपादितमुपन्यस्तम् । तादात्म्यं चात्र लोकप्रसिद्धमभेदरूपं उदाहृतशास्त्रसिद्धाविनाभावरूपं च श्लेषेणाभिन्नतयाऽध्यवसितमिति ध्येयम् । तथाचात्रामुखेप्रतीताऽप्यसंगतिस्समाधानप्रतिपादनेनाभासीभवतीति विरोधवदसंगत्याभासोऽपि विच्छित्तिविशेषशालितया अलंकारो भवतीति द्रष्टव्यम् ॥

 नन्विह कार्यकारणवैयधिकरण्यप्रयुक्तो विरोधाभास इति विरोधालंकार एवं किं न स्यादिति चेच्छ्रूयताम्-- एषा हि विरोधबोधिनी, न तु विरोध एव । तथाहि-- असंगतौ कार्यकारणयोर्द्वयोर्भिन्नाधिकरणत्वप्रयुक्तो विरोधप्रतिभासः । विरोधस्तु जात्यादेर्जात्यादिना सह एकाधिकरण एव प्रथमतो विरोधप्रतिभासः । न चैवं सति किमिति विरोधलक्षणे तथाऽनुक्तमिति शङ्क्यम् । तत्रैकाधिकरण इत्यनुक्तावपि तथैव पर्यवसानात् । ततश्चासंगतेर्विरोधोपजीव्यत्वेन विरोधापवादकतया अपवादभूतासंगतिविषयपरिहारेणैव विरोधसामान्यविषयतया उत्सर्गभूतस्य विरोधस्य व्यवस्थितिः । तथाच विरोधालंकारे ह्येकस्मिन्नधिकरणे द्वयोस्संबन्धाद्विरोधभानं असंगतौ त्वधिकरणद्वय इति

तस्मादस्य वैलक्षण्यमिति प्राञ्चः ॥

 ALANKARA II
42