पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
24
अलंकारमणिहारे

येन स तथोक्तः। रेफान्ताव्ययोत्तरपदो बहुव्रीहिः । स्थिरः चिरकालावस्थायी । शोभनानि च तानि धान्यनि च सुधान्यानि तान्यत्तीति सुधान्यादः सुमृष्टव्रीहितण्डुलाद्यन्नभोजीति यावत् । अन्यत्र सुधा अमृतं न्यादः आहारः यस्य स तथोक्तः ‘नौ ण च' इत्यादेर्निपूर्वकात् णप्रत्ययः । ‘जेमनं लेप आहारो निघसो न्याद इत्यपि' इत्यमरः । दानवारा दानोदकेन अत्याख्यातः अतिशयेन समन्तात्प्रथितः अत एव बुधेड्यत्वं विन्दते । महोदारसार्वभौमतया विद्वदभिनन्दनीयतां लभत इति भावः । इतरत्र दानवारातिः वृत्रमुखदैत्यध्वंसीति आख्यातः प्रसिद्ध्या, आद्यादित्वात्तृतीयायास्तसिः । आख्यात इति प्रथमान्तं वा पदम् । बुधैः देवैः ईड्यत्वं विन्दते देवाधिराजत्वं भजत इत्यर्थः । अत्र जगज्जननीकटाक्षितयोर्मर्त्यामर्त्ययोरप्रकृतयोश्श्लेषः ॥

 यथावा--

 कलितो भगवन् भवता मित्राणामधिभुवाञ्छितो विभवः । दानान्विता विरचिता वदान्यताऽपि च पृदाकुशिखरिमणे ॥ ८३१ ॥

 हे भगवन्! भवता अधिभु भुवि विभक्त्यर्थेऽव्ययीभावः । मित्राणां सुहृदां वाञ्छितः काङ्क्षितः विभवः कलितः कृतः । दानेन वितरणेन अन्विता वदान्यता वल्गुवचनताऽपि च ‘वदान्यो वल्गुवागपि' इत्यमरः । विरचिता ‘दत्वा च मधुरं वदेत्’ इति हि धर्मविदः । सुहृदस्त्वया विभववन्तस्तदनुगुणदानप्रियवचनाश्च कृता इति निर्गळितोऽर्थः । पक्षे-- अमित्राणामिति छेदः । वैरिणां अधिभुवां प्रभूणां ‘अधिभूर्नायको नेता’ इत्यमरः । विभवः कलितः युद्धेन, आद्यादित्वात्तसिः । ‘संप्रहाराभिसंपातक-