पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
319
विशेषोक्त्यलंकारसरः (३७)

 लोके ह्यसंनिकर्षस्तर्षहेतुः तदभावे संनिकर्षेऽपि तर्षोत्कर्ष उपनिबद्धः । तथा सन्निकर्षस्तृप्तिहेतुः तत्सद्भावेऽपि तृप्त्यभावो बोधितः । परंतु कारणाभावकार्याभावयोर्न प्रागुपदर्शितप्रकारेण प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्येन श्रुत्या प्रतिपादनमस्यार्थत्वमेव विभावनाविशेषोक्तिसंकरस्य । अमुमेव चार्थं हृदि निधाय मम्मटभट्टेन "यः कौमारहरः" इति पद्यमुदाहृत्यात्र स्फुटो न कश्चिदलंकार इत्यभिहितम् ॥

 वामनस्तु–‘एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः' इति व्यवाहार्षीत् । उदाहार्षीच्च ‘द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्’ इति । अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते । तत्र सिंहासनरहितं हि द्यूतं सिंहासनसहितराज्यतादात्म्यं कथमवलम्बेतेत्यारोपोन्मूलयितृयुक्तिनिराकरणायारोप्यमाणे राज्येऽपि सिंहासनराहित्यं कल्प्यते । तेन दृढारोपं रूपकमेवेदं न विशेषोक्तिः । एवंच 'अचतुर्वदनो ब्रह्मा' इत्यादिपौराणिकपद्येऽपि रूपकविशेष एव । तथा गुणाधिक्यकल्पनायामपि रूपकविशेष एव । यथा ‘धर्मो वपुष्मान् भुवि कार्तवीर्यः' इत्यादौ । एवंच ‘एकगुणहान्युपचयादिकल्पनायां साम्यदार्ढ्यं विशेषः’ इति विशेषालङ्कारं लक्षयन्तोऽपि प्रत्युक्ताः ॥

इत्यलङ्कारमणिहारे विशेषोक्तिसरस्सप्तत्रिंशः.