पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
23
श्लेषसरः (२८)

 यथा वा--

 दिवियुक्तस्थितिमुज्ज्वलविग्रहधाम्नैव मुदिरमुच्चापम् । व्यजयत यः किल स पुमान्विजयाय ममास्तु भुजगिरिनेता ॥ ८२९ ॥

 दिवि व्योम्नि युक्तस्थितिं युक्ता वर्षकरणकजगदानन्दनानुरूपा स्थितिः अवस्थानं यस्य तम् । तत्र हेतुमाह-- उच्चेति । उच्चाः निर्भराः आपः यस्य तम् । ‘ऋक्पूरप्' इत्यादिना समासान्तोऽप्रत्ययः । प्रावृषेण्यमिति भावः । मुदिरं जीमूतं ‘घनजीमूतमुदिरजलमुग्धूमयोनयः' इत्यमरः । उज्ज्वलस्य विग्रहस्य दिव्यवपुषः धाम्नैव तेजसैव यः व्यजयत । पक्षे उच्चापं उद्धृतधन्वानम् । दिवियुक्तस्थितिं दिना दिवर्णेन वियुक्ता विघटिता स्थितिः यस्य तं मुदिरं मुरमित्यर्थः । मुदिरशब्दे दिवर्णलोपे मुर इति निष्पत्तेः । शब्दार्थयोस्तादात्म्यमिह शरणम् । विग्रहधाम्ना समरप्रभावेण व्यजयत तिरस्कुरुते स्म । इहाप्रकृतयोर्मुदिरमुरयोः श्लेषः ॥

 यथावा--

 त्वदवेक्षणतोमर्त्यः प्रसाधितस्वस्थिरस्सुधान्यादः । अखिलाम्ब दानवारात्याख्यातो विन्दते बुधेड्यत्वम् ॥ ८३० ॥

 हे अखिलाम्ब! मर्त्यः मानवः । अमर्त्य इति च छेदः । देव इत्यर्थः । त्वदवेक्षणतः त्वत्कटाक्षात् प्रसाधितस्वस्थिरः प्रसाधिते प्रकर्षेण वशीकृते स्वं धनं स्थिरा भूश्च येन स तथोक्तः । अमर्त्यपक्षे-- प्रसाधितस्वः प्रसाधितं अलंकृतं स्वः स्वर्गो