पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
317
विशेषोक्तिसरः (३७)

प्रभाववति । त्वद्वैभवविद्वेषी खलः कुतोऽद्यापि शिष्यते भगवन् ॥ ११३५ ॥

 अत्र दुष्कृद्विनाशनपटीयस्तरमहाप्रभावभगवज्जागरूकतारूपकारणसामग्रीसमवधानेऽपि तद्वैभवविद्वेषिखलजननिश्शेषीकरणरूपकार्यानुदयवर्णनाद्विशेषोक्तिः । तत्परिशेषणे निमित्तं किंचिद्भविष्यतीत्यचिन्त्यमेव तत्, प्रतीत्यविषयत्वात् ॥

 यथावा--

 पन्नगनगधौरेयः प्रसन्नयाऽम्ब त्वयाऽनिशं सुहितः । चित्रं नमदस्खलितो न रागदुष्टाऽपि दृष्टिरेतस्य ॥ ११३६ ॥

 हे अम्ब! त्वया प्रसन्नया सुरया स्वच्छया सतुष्टया वा सत्येति वस्तुस्थितिः । ‘प्रसन्ना स्यात्सुरायां स्त्री स्वच्छसंतुष्टयोस्त्रिषु' इति मेदिनी । 'गन्धोत्तमा प्रसन्नेरा’ इति सुरापर्यायेष्वमरश्च । अनिशं सुहितः तृप्तः । पक्षे-- सुतरां हितरक्षणेन सकलभुवनहितकृदित्यर्थः ॥

लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।
रक्षकस्सर्वसिद्धान्ते वेदान्तेष्वपि गीयते ॥

इति श्रीसाहित्येनैव जगद्रक्षणोक्तेः । मदेन चित्तविकारेण स्खलितः न भवति । पक्षे-– नमदस्खलित इति समस्तमेकं पदम् । नमत्सु शरणागतेषु अस्खलितः आश्रितरक्षणव्रते च्युतिरहित इत्यर्थः । किंच एतस्य दृष्टिः रागेण शोणिम्ना मदकार्येण । अन्यत्र मात्सर्यादिदोषेण दुष्टा च न भवति । अत्र अनिशं