कृतिमुपयाति । किंतु यथावस्थितैव भवतीति भावः । तथाऽवस्थाने हेतुमाह तस्या इति । हि यस्मात् तस्याः दृशः परिपाटी रीतिः तादृग्विधा तत्स्वभाव एव तादृक् यत्क्षोभहेतौ सत्यप्यविकृततयैवावस्थानम् । अत एव विशेषोक्तिः । इयमप्युक्तविषया । तस्यास्तादृग्विधा हि परिपाटीति विकारानुदयनिमित्तस्य प्रतिबन्धकस्योपात्तत्वात् । अत्र सारससरसाशब्दः प्रतिलोमपाठेऽपि विकारलेशमपि न विन्दति । तस्याः सारससरसाशब्दस्य अर्थगतं स्त्रीत्वं शब्दे आरोप्यते । परिपाटी आनुपूर्वी तथाविधाहि । विलोमपाठेऽप्यनुलोमसुसदृशवर्णावस्थानरूपप्रकाशशालिनीति चमत्कारान्तरप्रदर्शनं विशेषः पूर्वोदाहरणात् ॥
केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति । उदाहरन्ति च--
स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । |
इति । अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्रतीयते । इह तु न तथा । किंतु भविष्यति किंचिन्निमित्तमित्याकारेणेत्यनुक्तनिमित्तातोऽचिन्त्यनिमित्ताया भेद इति हि तेषामभिप्रायः । अन्ये तु ‘नानुक्तनिमित्तायां चिन्त्यत्वं निमित्तविशेषणं, भेदान्तरकल्पनागौरवप्रसङ्गात् । किंतु चिन्त्यत्वमचिन्त्यत्वं चेति द्विप्रकारकमपि निमित्तं यत्र नोक्तं साऽनुक्तनिमित्ता तेन अचिन्त्यनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमर्हति' इत्याहुः ॥
चिन्त्यनिमित्ता पूर्वमुदाहृतैव ॥
अचिन्त्यनिमित्ता यथा--
दुष्कृतिनिश्शेषीकृति कृतिनि त्वयि जाग्रति