पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
313
विशेषोक्तिसरः (३७)

 उक्तनिमित्ता यथा--

 प्रायश्चीर्णान्यपि वा प्रायश्चित्तानि पापिनं मनुजम् । न हि नारायणविमुखं पुनन्ति तीर्थानि मद्यभाण्डमिव ॥ ११३१ ॥

 अत्र नानाविधप्रायश्चित्ताचरणलक्षणकारणसद्भावेऽपि पूतत्वरूपकार्यानुदयः । इयमुक्तनिमित्ता नारायणविमुखमित्यपूततानिमित्तस्य प्रतिबन्धकस्योपात्तत्वात् । अनेन--

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् ।
न निष्पुनन्ति राजेन्द्र सुराभाण्डमिवापगाः ॥

इति श्रीभागवतश्लोकार्थः प्रत्यभिज्ञाप्यते ॥

 यथावा--

 हन्त विशुद्धे पूर्णेऽप्यन्तर्गगने विधौ विलसमाने । बुद्धिर्मुग्धतमानां तमस्विनी न विजहाति मालिन्यम् ॥ ११३२ ॥

 विशुद्धे पूर्णे आभ्यां विशेषणाभ्यां ‘एष आत्माऽपहतपाप्मा’ इत्यादिदहरविद्योदीरितमखिलहेयप्रत्यनीकत्वमनन्तकल्याणगुणाकरत्वं च संगृहीतम् । अन्तः ब्रह्मपुररूपशरीरान्तर्वर्तिनि हृदयपुण्डरीके विद्यमाने गगने ‘दहरोऽस्मिन्नन्तर आकाशः, तत्रापि दह्लं गगनम्’ इति दहरविद्याप्रतिपादिते परस्मिन् ब्रह्मणि विधौ विष्णौ नारायणे । अनेन लिङ्गभूयस्त्वाधिकरणसिद्धान्तप्रकारेण नारायणस्यैव सर्वपरविद्योपास्यत्वमित्ययमर्थस्सूचितः । विलसमानेऽपि ‘अनेन सकृद्विभातो ह्येवैष ब्रह्मलोकः' इति तद्विद्योक्तं ब्रह्मस्वरूपप्रकाशस्यानावृततया भासमानत्वमु-

 ALANKARA II
40