पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
312
अलंकारमणिहारे

षन्ति यज्ञेन दानेन तपसाऽनाशकेन' इत्याद्युक्तरीत्या तीर्थस्नानादीनां ब्रह्मवेदननिदानभूतचित्तशुद्धिहेतूनां बहूनां समवधानेऽपि चित्तशुद्धिरूपकार्यानुदयवर्णनाद्विशेषोक्तिः । तत्र ईश्वरसौहार्दयादृच्छिकसुकृतपरिपाकाद्यभावरूपं प्रतिबन्धकं प्रतीयते । इयमनुक्तनिमित्ता चित्तशुद्ध्यनुदयनिमित्तस्य प्रतिबन्धकस्यानुपात्तत्वात् ॥

 यथावा--

 सुबहुश्रुतोऽपि कश्चित्त्वां नारायण न वेत्ति परतत्त्वम् । अवगाढपायसोऽपि च तस्य रसं दारुहस्तक इवाहो ॥ ११३० ॥

 अत्र बहुश्रुतत्वरूपकारणसद्भावेऽपि ‘तत्त्वं नारायणः परः' इति श्रूयमाणो नारायण एव परं तत्त्वमिति ज्ञानरूपकार्यस्यानुदयो वर्णितः ॥

विद्या राजन्न ते विद्या मम विद्या न हीयते ।
विद्याहीनस्तमो वस्तो नाभिजानासि केशवम् ॥

 इत्युक्तरीत्या ब्रह्मविद्याविधुरत्वतमोध्वस्तत्वादिरूपं प्रतिबन्धकं प्रतीयत इतीयमप्यनुक्तनिमित्ता । उक्तविधपरतत्त्वाज्ञाननिमित्तस्य प्रतिबन्धकस्यानुपादानात् । अवगाढं विलोडितं पायसं परमान्नं येन स तथोक्तोऽपि दारुहस्तकः पायससूपादिविलोडनपरिवेषणसाधनभूतो दारुनिर्मितो हस्ताकारः कश्चिद्वस्तुविशेषः 'स्यात्तण्डूर्दारुहस्तकः' इत्यमरः । अत्र--

यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः ।
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ॥

 इति श्रीमद्भारतवचनार्थः प्रत्यभिज्ञाप्यते । उपमासंकीर्णत्वं तु पूर्वोदाहरणाद्विशेषः ॥