पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
310
अलंकारमणिहारे

शुचेः अपहतपाप्मनः भगवतः मुखं मम समक्षं प्रत्यक्षं प्रादुरभूत् आविर्भूतमभूत् । अत्रापि कार्यादिन्द्रादग्नेश्च कारणस्य भगवन्मुखस्य प्रादुर्भावोऽभिहितः। अन्यत्तु पूर्ववदेव ॥

 यथावा--

 विष्णुपदाद्गङाऽभूद्विमलेति न्यशमयाम शास्त्रेभ्यः । चित्रमिदं गङ्गाया विष्णुपदं विमलमाविरभवदिति ॥ ११२८ ॥

 न्यशमयाम अशृणवाम गङ्गायास्सकाशात् विमलं विष्णुपदं भगवच्चरणं आविरभवत् अजायतेति विरोधः । गङ्गायाः हेतोः विष्णुपदं अन्तरिक्षं विमलं सत् आविरभवत् प्रकाशमासीत् इति परिहारः। कार्यात्कारणजनिस्स्पष्टैव ॥

 इमे च षट् प्रकाराः कुवलयानन्दकारैर्लक्षिताः । प्राक्तनैस्तु अत्राद्य एव प्रकारो लक्षितः नान्ये पञ्च प्रकाराः एते च पञ्चप्रकारा दीक्षितोपज्ञान्येवेति ज्ञायन्ते ॥

 रसगङ्गाधरकृदादयस्तु-- "प्रथमप्रकारातू द्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमेव, कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कारणतावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वात् । प्रकारान्तरस्वीकारापेक्षया तादृशविवक्षाया एव लघुत्वात् । एवं प्रतिबन्धकमपि कारणाभाव एव । प्रतिबन्धकाभावस्य कारणत्वात् । इति तृतीयोऽपि भेदो न विलक्षणः। चतुर्थेऽपि भेदे कारणाभाव आर्थः । 'शङ्खाद्वीणानिनादोऽयम्’ इत्युक्ते वीणां विनैवेति प्रत्ययादवैलक्षण्यम् । तस्मादाद्येन प्रकारेण प्रकारान्तराणामालीढत्वात् षट्प्रकारा इत्यनुपपन्नमेव । यदि तु यथाकथंचित्कुवलयानन्दोक्तिस्समर्थनीये-