पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
22
अलंकारमणिहारे

शुद्धाष्टमीं विना वाऽपि शुद्धमृक्षमथापि वा ।
मृगेण च नवम्यां वा दशम्यां वाऽपि वैष्णवः ॥
पूर्वे तु सप्तमीयुक्ता त्वपरे कृत्तिका युता ।
दिनद्वयं परित्यज्य तदन्ये वासरे चरेत् ॥

इत्यादिवचनसहस्रमनुसन्धेयम् । एवं केवलप्रकृतानेकविषयः श्लेष उदाहृतः ॥

 अप्रकृतानेकविषयो यथा--

 सुमहाबिलविलसत्तमविशदगुणा सन्ततोत्तमस्फुरणा । तारावळी वृषाचलधौरेयनखाळिकृततिरस्करणा ॥ ८२८ ॥

 सुमहाः शोभनदीप्तिः बिलेषु रन्ध्रेषु विलसत्तमः विशदः स्वच्छः गुणः तन्तुः यस्यास्सा । अन्यत्र सुष्ठु महाबिले व्योम्नि "मेघद्वारं महाबिलम्' इत्यमरशेषः । विलसत्तमः अतिमात्रं प्रकाशमानः विशदगुणः धावळ्यं यस्यास्सा तथोक्ता । सततं उत्तमं स्फुरणं चाकचक्यं यस्यास्सा तथोक्ता । इतरत्र उत्कृष्टं तमसि स्फुरणं प्रकाशो यस्यास्सा । तमस्स्फुरणेत्यत्र तमश्शब्दविसर्गस्य ‘खर्परे शरि वा विसर्गलोपः' इति लोपे पक्षद्वयेऽपि वर्णानुपूर्व्यास्साम्यं वेदितव्यम् । तारावळी मुक्ताहारः नक्षत्रपङ्क्तिश्च ।

तारोवानरभिन्मुक्ताविशुद्धौ शुद्धमौक्तिके ।
नानक्षत्रेऽक्षिमध्ये च न नारूप्ये नपुंसकम् ॥

इत्युुभयत्रापि मेदिनी । अन्यत्सुगमम् । अत्र भगवन्नखावळ्या उपमानत्वेनाप्रकृतयोर्मुक्ताहारतारकावळ्योश्श्लेषः ॥