पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
306
अलंकारमणिहारे

प्रत्यवायहेतुत्वस्यैव स्मरणाच्च तादृशान्नभोजनस्य मङ्गलप्रापकत्वोक्तिर्विस्मयावहैवेति भावः ॥ परिहारस्तु--अङ्गमङ्गलमिति समस्तं पदम् । अविद्यमानः ङ्ग इत्याकारकवर्णसमुदयो यस्य तत्तथोक्तं मङ्गलं मलं पापमित्यर्थः । भुङ्क्ते इति । ‘मलोऽस्त्री पापविट्किट्टेषु' इत्यमरः । शब्दार्थयोस्तादात्म्यं तु न प्रस्मर्तव्यम् । भगवन्निवेदितान्नाद्युपभोक्ता--

यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ।

 इत्युक्तप्रक्रियया सर्वपापविनिर्मोकपूर्वककल्याणभाग्भवति । तदितरस्तु केवलाघो भवति केवलादी’ ‘ते त्वघं भुञ्जते पापाः ये पचन्त्यात्मकारणात्' इति श्रुतिस्मृत्युक्तप्रकारेण केवलपापभोक्तैव भवतीति निर्गलितोऽर्थः । अत्र मङ्गलभोक्तृत्वविरुद्धाद्भगवदनिवेदिताद्यन्नभोजनात्तद्भोक्तृत्वरूपकार्यसंपत्तिरुक्ता । पूर्वार्धोक्तसमालङ्कारपुरस्कृतेयम् । पूर्वोदाहरणाद्विच्छित्तिविशेषान्तरं तु स्पष्टमेव ॥

 अत्रेदमवधेयम्-- लक्षणे विरुद्धादित्यस्य कार्यासहवृत्तेरित्यर्थः । तथाचात्र मङ्गलभोक्तृत्वरूपकार्यस्य भवगवदनिवेदितान्नादिभोजनरूपकारणस्य चैकस्मिन् पुरुषरूपे देशे असहवृत्तित्वाद्देशिको विरोध इति । एवं ‘कुम्भीनसपतिभूधर’ इत्यादिषु प्रागुपदर्शितेषु त्रिष्वप्युदाहरणेषु दैशिक एव विरोधो द्रष्टव्यः ॥

 यथावा--

 स्वकरव्यतिकरितैर्हरिरतिनिशितैराशुगैर्महातेजाः । अतनुतरैरतनुत बत विमतान् जडताऽतिवेपितान् सद्यः ॥ ११२२ ॥

 हरिः रविः भगवांश्च । स्वस्य करैः किरणैः कराभ्यां च