पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
302
अलंकारमणिहारे

जन्तुफलापरनामानः पादपा जाता इति परिहारः । ‘नागं नपुंसके रङ्गे सीसके करणान्तरे’ इत्युपक्रम्य ‘नागः पन्नगमातङ्गक्रूराचारिषु तोयदे' इति, ‘उदुम्बरस्तु देहल्यां वृक्षभेदेऽपि षण्डके । कुष्ठभेदेऽपि च पुमांस्ताम्रे तु स्यान्नपुंसकम्' इति च मेदिनी । तेभ्यः ताम्रवृक्षेभ्यः अयसश्शाखा अयश्शाखाः प्रकृष्टाश्च ताः अयश्शाखाश्च प्रायश्शाखाः श्रेष्ठलोहमयशाखा जाता इति विरोधः । प्रायः भूम्ना शाखा जाता इति परिहार: । इतः आभ्यश्शाखाभ्यः रीतिफलं पित्तलफलं अभ्युदितम् । हा इत्याश्चर्ये हारीति मनोहरप्रकारं मनोहरत्वेन प्रकाशमानं वा 'वल्गु वामं हारि शालि’ इति, ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इति चामरः । 'इति हेतौ प्रकाशने' इति मेदिनी । फलं अभ्युदितमिति परिहारः । अत्रापि पूर्वोदाहरणवदेव सर्वम् । एकावळीसंकीर्णत्वं तु विशेषः ॥

 यथावा--

 इदमद्भुतमतिमात्रं यदिहारुणनलिनवनरुचिवदान्यात् । पावयितुं जगदुदभूत्पादाद्देवस्य भास्वतो गङ्गा ॥ १११७ ॥

 अरुणनलिनवनरुचेः वदान्यात् दातुः । पक्षे–- ततोऽपि महतः भास्वतः भानोः देवस्य । पक्षे–- देवस्य भगवतः भास्वतः तेजस्विनः पादात् किरणात् चरणाच्च गङ्गा जाता । अत्र गङ्गाया अकारणादपि भानुपादात्तज्जन्मरूपकार्यं वर्णितम् । वक्ष्यमाणहेत्वलंकारसंकीर्णत्वं पूर्वेभ्यो विशेषः ॥