पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
298
अलंकारमणिहारे

चरति सति पन्नगभूमिभृत् श्रेष्ठः फणीत्यर्थः । शेषाद्रिरिति वस्तुस्थितिः । उन्नद्धशिराः उत्तम्भितफण इत्यर्थः । पक्षे--उन्नतशिखरः महोल्लासं अमितमानन्दं महैः उत्सवैः उल्लासं प्रकाशं च विन्दति । अत्र स्वोपरिगरुत्मत्संचाररूपप्रतिबन्धकसद्भावेऽपि फणिवरेण्यस्य उन्नद्धफणतया महोल्लासभाक्त्वरूपकार्योत्पत्तिर्वर्णिता । श्लेषभित्तिकाभेदाध्यवसायः पूर्ववत् ॥

 यथावा--

 हन्त सदाहारितमेऽप्यतिमात्रमुदारमण्यभिष्वङ्गे । भवदनभिमुखान् सुमहाशुचिभवदाहः पराभवति भगवन् ॥ ११११ ॥

 हे भगवन् ! भवदनभिमुखान् जनान् । सः दाहारितमे इति छेदः । स इत्येतदुत्तरत्रान्वेति । दाहस्य अतिशयेन अरिः अरितमः तथोक्ते अतिवेलविरोधिनि प्रतिबन्धके इति यावत् । अतिमात्रं अत्यर्थं उदारः महान् यो मणिः तस्य अभिष्वङ्गेऽपि संबन्धे सत्यपीत्यर्थः । सः तीक्ष्णतमत्वेन प्रसिद्धः सुमहान् यः शुचिभवः अग्निजन्यः दाहः पराभवति अभिभवति । हन्त । दाहप्रतिबन्धकमणिसंबन्धसद्भावेऽपि दाहोत्पत्तिरूपकार्योदयो विस्मयावह इति भावः ॥ परिहारस्तु-- सदा सर्वदा हारितमे अतिमनोहारिणि 'वल्गु वामं हारि शालि’ इत्यमरः । अतिमात्रमुदा अतिवेलप्रीत्या रमणीनां ललनानां अभिष्वङ्गे परिष्वङ्गे सत्यपि सुमहाऽशुचिः अतिमात्रमपवित्रः यो भवः संसारः तस्य दाहः तापः पराभवतीति । रमणीयतमरमणीपरिष्वङ्गभाजो भवदनभिमुखान् जनान् संसारतापोऽभिभवतीति भावः ॥