पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
296
अलंकारमणिहारे

ताः । चित्रं त्वव्ययलक्ष्मीभाजस्सन्तो विभान्ति चक्रधर! ॥ ११०८ ॥

 हे चक्रधर! यत् यस्मात्कारणात् उच्चादिं उत्कृष्टं चादिं चशब्दादिकं कंचिद्गणं श्रिताः कतिचन शब्दा इत्यध्याहारः । असत्त्ववृत्तयः अद्रव्यवाचिनः न न भवन्ति, किंतु द्रव्यवाचिन एवेति भावः । तत् तस्मात् अनिपाता: निपातसंज्ञाविधुराः । ‘चादयोऽसत्त्वे’ इत्यद्रव्यार्थकानामेव चादीनां निपातसंज्ञाविधानेन द्रव्यवाचिनां तदभावादिति भावः । इदं युक्तमेव । इदं तु चित्रम्-- यत् अव्ययलक्ष्मीः अव्ययश्रीः अव्ययभाव इति यावत्, तां भजन्तीति तथोक्तास्सन्तः विभान्तीति । अव्ययत्वप्रयोजकनिपातसंज्ञाया एवाभावे अव्ययत्वं भजन्त इत्येतदद्भुतमेवेति भावः । ‘स्वरादिनिपातमव्ययम्' इति हि निपातानामव्ययसंज्ञा विधीयते सूत्रकारैः । परिहारस्तु-- उच्चादिं उच्चेषु उन्नतपदाधिरूढेषु चतुर्मुखादिषु आदिं, उच्चानामादिमिति वा । उत्कर्षेण चकारादिमिति च शब्दार्थतादात्म्यवैभवाल्लभ्यते, चक्रधरेति संबुद्धिबलात् । त्वां श्रिताः सन्तः ब्रह्मविदः सत्त्ववृत्तयः सात्विकाः ते न भवन्तीत्यसत्त्ववृत्तयः तादृशा न भवन्ति किंतु सत्त्ववृत्तय एव । प्रतिषेधद्वयेन संभाव्यासत्त्ववृत्तिता निवर्त्यते । तदाह वामनः--'संभाव्य निषेधनिवर्तने द्वौ प्रतिषेधौ' इति,

महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः ।

इत्युक्तरीत्या सत्त्वगुणप्रवर्तकं त्वां श्रितास्सात्विका एव भवन्तीत्यर्थः । अत एव अनिपाताः राजसतामसवन्मध्याधोगतिरूपनिपातं न प्राप्तः, किंतु ‘ऊर्ध्वं गच्छन्ति सत्वस्थाः’ इत्युक्त-