पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
295
विभावनालङ्कारसरः (३६)

 संबन्धवैकल्ये यथा--

 तव चरणनलिनरेणुः फणधरभूभृन्मणे शिरसि विधृतः । भक्तानाममृशन्नपि बाष्पाययते विलोचनानि बत ॥॥ ११०७ ॥

 बाष्पाययते बाष्पमुद्वमयति । अत्र बाष्पोद्वमनकारणस्य रेणोरसामग्र्यं स्पर्शनरूपसंबन्धवैकल्यम् ॥

 दण्डिमते त्वियं विशेषोक्तिः। यतः प्रथमोदाहरणे भगवत्कटाक्षविसराणां द्वितीयोदाहरणे तत्पादरेणोश्च महामहिमरूपो विशेषः प्रत्याय्यते, तथाच तदीयं लक्षणम् ॥

गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम् ।
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥

 इति । विशेषस्य प्रस्तुतस्य यः प्रभावाद्यतिशयः तस्य दर्शनाय प्रतिपत्तय एव गुणजातिक्रियाणां आदिपदेन द्रव्याणां च यद्वैकल्यदर्शनं कार्यसिद्धावनुपयोगित्वप्रतिपादनं सा विशेषोक्तिर्नामालंकार इति कारिकार्थः । दीक्षितानुसारिभिरस्माभिस्तु निशितत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति विभावना प्रदर्शिता ॥

 तृतीया विभावना--

 तृतीया प्रतिबन्धेऽपि कार्योत्पत्तिर्विभावना ॥

 प्रतिबध्यते अनेनेति प्रतिबन्धः प्रतिबन्धकः । प्रतिबन्धकसद्भावेऽपि कार्योत्पत्तिस्तृतीया विभावना ॥

 यथा--

 नासत्त्ववृत्तयो यत्त्वामुच्चादिं श्रितास्तदनिपा-