पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
294
अलंकारमणिहारे

 द्वितीया तु जालं विनैवेत्युदाहृतैव । मानसानिमिषजालाकर्षणहेतोर्भगवद्दिव्यविग्रहसौन्दर्यस्यानुपात्तत्वात् ।

 यथावा--

 सन्ततमनञ्जनं त्वामञ्जनगिरिनेतरक्ष्णि निदधाना । कमला निरञ्जनाऽपि श्यामलकोमलविलोचना लसति ॥ ११०५ ॥

 न अञ्जनं अनञ्जनं अञ्जनभिन्नं, कर्मलेपविधुरमितिवस्तुस्थितिः । 'निष्कलं निरञ्जनम्' इति श्रुतेः । निरञ्जना नयनाञ्जनविधुरा कर्मलेपविधुरेति तु वस्तुस्थितिः । अत्राञ्जनं विनाऽपि श्यामललोचनात्वे 'तं चेयमसितेक्षणा’ इति स्वाभाविकत्वं निमित्तं, तच्च नोपात्तमित्यनुपात्तनिमित्तेयं विभावना ॥

 द्वितीया विभावना--

कारणानामसामग्र्ये कार्यजन्म च सा मता ॥

 कारणानां हेतूनां असामग्र्ये हेतुतावच्छेदकधर्मस्य हेतुतावच्छेदकसंबन्धस्य वा वैकल्ये सति कार्योत्पत्तिश्च विभा वनेत्यर्थः ॥

 तत्र धर्मवैकल्ये यथा--

 कमलेक्षण! मम हृदयं कालायसगोळतोऽपि कठिनतरम् । कलशाब्धेरपि शिशिरैः कटाक्षविसरैर्विलाययसि चित्रम् ॥ ११०६ ॥

 अत्र कठिनतरहृदयद्रवीकरणे साध्ये कटाक्षविसराणामसामग्र्यं निशितत्वादिधर्मवैकल्यम् ॥