ण्डवदेकीकृतस्य वस्तुतस्सदृशवस्तुद्वयस्य एकावयवसंबन्धिकारणव्यतिरेकसामानाधिकरण्येनापरावयवमादाय पर्यवसानं भवति । तत्र च कार्यांशः कारणाभावरूपविरोधिनो बाध्यतयैव स्थितः, न बाधकतया, कार्यांशस्य कल्पितत्वात् । कारणाभावस्य च स्वभावसिद्धत्वात् । अत एव कार्यांशो रूपान्तरेण पर्यवस्यति । अत एव च समबलविरोधिद्वयघटिताद्विरोधालंकारादस्य वैलक्षण्यम् । तथाचोक्तम्--
कारणस्य निषेधेन बाध्यमानः फलोदयः । |
इत्याहुः । अत्रैवोदाहरणपद्ये-– ‘जालं विनैव नितरां लोलं ननु मानसानिमिषजालम्’ इति पूर्वार्धे पठिते अस्मिन्नलंकारे रूपकमनुप्राणयितृत्वेनावतिष्ठते । अत एव ‘विभावनायामाहार्याभेदबुद्धिमात्रमेवानुप्राणकम् । तच्च क्वचिदतिशयोक्त्या क्वचिच्चरूपकेण इति रसगङ्गाधरग्रन्थश्च संगच्छते । अत एव चास्माभिरभेदाध्यवसानरूपातिशयोक्तेरनुप्राणकतयाऽवस्थितिः प्रायेणेत्यस्मिन्नेव प्रस्तावे पूर्वमुक्तमिति ध्येयम् ॥
इयं च विभावना उक्तनिमित्ता अनुक्तनिमित्ता चेति द्विधा । तत्राद्या यथा--
इन्दीवररुचिरतनुं त्वां देव सदोपगूहमानायाः । अमृगमदलेपमासीदब्धिसुतायाः पयोधरे नैल्यम् ॥
अत्र हि अब्धिसुतापयोधरनीलिम्नि मृगमदलेपो निमित्तं, तदभावेऽपि नैल्यमुपनिबध्यमानमापाततो विरुद्धमपि भगवदुपगूहनहेतुकतया पर्यवस्यति । भगवदुपगूहनं चोपात्तमित्युपात्तनिमित्तेयम् ॥