पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
20
अलंकारमणिहारे

 अत्राम्बरीषादिवद्भगवदेकनिष्ठानां श्रीजयन्तीव्रतानुष्ठातॄणां च प्रस्तुतानामेव श्लेषः। तथाहि-- हे नन्दनंदन! गोविन्द! इदं वक्ष्यमाणार्थोपस्काराय । भवपावकेन संसारानलेन विद्धं बाधितं अत एव अभद्रं अमङ्गळं ब्रह्याणं चतुर्मुखमपि प्राक् पुरस्तात् जहतः ध्यानानुपकारकत्वात्त्यजन्तः । चतुर्मुखस्यैवादौ त्यागे ततोऽप्यवरदैवतत्यागः किंपुर्न्यायसिद्धः । यद्वा- प्राक्छब्दो भवशब्दविशेषणतया समस्तः । प्राग्भवः अनादिसंसारः पावक इव तेन विद्धं, अन्यत्तुल्यम् । अत्र--

आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः ।
प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥
अविद्यान्तर्गतास्सर्वे ते हि संसारगोचराः ।
यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः ॥

इति, ‘आविरिञ्चादमङ्गळम्’ इत्यादिप्रमाणानि चानुसंहितानि । अमी उपात्तव्रताः उपात्तं ब्रतं--

स त्वं प्रहर वा मा वा मयि वज्रं पुरन्दर ।
नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः ॥

इत्यादिकमम्बरीषोक्तप्रकारकं ब्रतं यैस्ते ‘नियमो ब्रतमस्त्री तच्चोपवासादिपुण्यकम्' इत्यमरः । उदाहृतप्रमाणाभिसंधिनैव मूले गोविन्देति संबोधनम् । इदमेव पीताम्बरसागराम्बरादिवद्विशेष्यम् । सूत्रितं हि वामनेन--'विशेषणप्रयोगो विशेष्यप्रतिपत्तौ’ इति । ते तव प्रियतमास्सन्तो जयन्ति । प्रियतमा इत्यनेन 'यमेवैष वृणुते' इति श्रुत्युक्तपरमात्मवरणीयताहोतूक्तिः 'प्रियतम एव हि वरणीयो भवति यस्यायं निरतिशयीप्रयस्स एवास्य प्रियतमो भवति’ इति हि लघुसिद्धान्ते