रराजेति विरोधः । नराणां राजा नरराजः तस्य संबुद्धिः हे नरेन्द्रेति परिहारः । तिङन्तसुबन्तशब्दश्लेषमूलकोऽयं विरोध इति पूर्वस्माद्वैलक्षण्यम् ॥
एवं श्लेषमूलको विरोधालंकारः प्रपञ्चितः ॥
अयमेव शुद्धो यथा--
एजति तन्नैजति तत्तद्दूरे तद्वदन्तिके भवति । अन्तर्बहिश्च युगपज्जगतोऽस्य तदद्भुतं परं ब्रह्म ॥
अत्र--
तदेजति तन्नैजति । तद्दूरे तद्वदन्तिके । |
इति श्रुत्यर्थोऽनुसंहितः । तथाहि-- तत् परं ब्रह्म । युगपदिति सर्वत्रान्वेति एजति कम्पते नैजति न कम्पते इति विरोधः । जवीय इव ज्ञायते वस्तुतो न कम्पते इति परिहारः । ‘अनेजदेकं मनसो जवीयः' इति पूर्वमन्त्रैकार्थ्यात् । तत् ब्रह्म दूरे तद्वत् अन्तिके च भवतीति विरोधः । आसुरदैवप्रकृतिपुरुषापेक्षोऽयं विभोरेव दूरान्तिकवर्तित्वव्यपदेश इति परिहारः । आह च भगवान् शौनकः--
पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् । |
इति । तत् ब्रह्म अस्य जगतः अन्तः बहिश्व युगपद्भवतीति विरोधः। लोके गृहान्तर्वर्तिनां जनानां तदानीमेव बहिस्स्थित्यदर्शनात् । परिहारस्तु सर्वव्यापकतया तत्संभवादिति । तथा तैत्तिरीयके च श्रूयते-- 'अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः