पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
287
विरोधालङ्कारसरः (३५)

 हे रघुवीर! भुजप्रतापाग्नौ विराधं पुरा एधयसे एधं इध्मं करोषि स्म नैधयसे इति विरोधः ‘पुरि लुङ् चास्मे’ इति भूते लट् । विराधं नैधयसे न वर्धयसे 'किंतु भुजप्रतापाग्नौ प्लोषयसि स्मेति योजनाभेदेन परिहारः । खरमुखान् निशिचरान् क्रव्यादः मांसाशिनः कङ्कजम्बुकादीन् तैरित्यर्थः । आशयसे पुरेत्येतदत्राप्यनुषज्यते । अभ्यवहारयसि स्म । नाशयसे नाभ्यवहारयसि स्मेति विरोधः खरप्रमुखान् खरदूषणादीन् नाशयसे ध्वंसयसि स्म । अथ क्रव्याद्भिः आशयसे स्मेति परिहारः पूर्ववत् । 'गतिबुद्धिप्रत्यवसान' इत्यादिना अश्नातेरणौ कर्तॄणां क्रव्यादां णौ कर्मत्वं ‘क्रव्याद्रक्षसि पुंसि स्यान्मांसादिन्यन्यलिङ्गकः' इति मेदिनी । अत्र श्लिष्टाभ्यां तिङन्तशब्दाभ्यां विरोधप्रदर्शनमिति विशेषः ॥

 रक्षसि न रक्षसि त्वं दयमानमना जगन्ति दाशरथे । स भवान् कृताभिषेको रराज नरराज विस्मयायैतत् ॥ ११०० ॥

 हे दाशरथे! त्वं दयमानमनास्सन् जगन्ति रक्षसि पालयसि न रक्षसीति विरोधः । परिहारस्तु रक्षसीति जात्यभिप्रायकमेकवचनम् । राक्षसजातौ न दयमानमना इति व्यवहितेन नञा योजना ‘कुर्वन्तमित्यतिभरेण न गानवाचः पुष्पैर्विराममळिनां च न गानवाचः' इत्यत्र न विराममितिवत् । 'वायसे कृतवान्क्रूरां मतिम्’ इत्युक्तरीत्या क्रौर्यं भजन्नित्यर्थः । जगन्ति रक्षसीति । रक्षोजातौ तव दयमानमनस्कत्वे कथं जगद्रक्षणं स्यादिति भावः । स भवान् एवं राक्षसकुलक्षपयिता भवान् । कृताभिषेकः साकेते राज्याभिषेकं प्राप्तस्सन् रराज दिदीपे । न