पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
286
अलंकारमणिहारे

र्मणि क्तः । श्लक्ष्णोऽपि कृशोऽपि असूक्ष्मः अकृश इति विरोधः श्लक्ष्णः प्रियंवदः असूक्ष्मः अकैतवः महानिति वा परिहृतः । ‘श्लक्ष्णं दभ्रं कृशं तनु, श्लक्ष्णः प्रियंवदः' इति चामरः ‘सूक्ष्मं स्यात्कैतवेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी । सुरभिस्सुगन्धिरपि गन्धशून्यः सौरभहीन इति विरोधः । मनोहरः अनवलेपश्चेति समाहितः ‘सुरभिश्चम्पके' इत्यारभ्य ‘सुगन्धौ च मनोज्ञे च' इति, ‘गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः’ इति च विश्वः ॥

 अनिमिषराजोऽचपलः प्रबलोऽपि त्वं न बाधसे विबलान् । चित्रं सुधीवराणां लुनासि गुणजालमखिलात्मन् ॥ १०९८ ॥

 हे अखिलात्मन्! त्वं अनिमिषराजः मत्स्यराजोऽपि अचपलः अमत्स्य इति विरोधः । देवाधिराजः अचञ्चलशील इत्यविरोधः 'सुरमत्स्यावनिमिषौ’ इत्यमरः । ‘चपलः पारदे मीने' इत्युपक्रम्य ‘वाच्यवत्तरळे चले' इति मेदिनी । प्रबलोऽपि विबलान् दुर्बलान् शकुलार्भकान् न बाधसे इति विरोधः । प्रबलेन दुर्बलस्य बाधो हि मत्स्यजातेस्स्वभावः । तदभावादिति भावः । सर्वेश्वरत्वेन सर्वस्मात्प्रबलस्त्वं स्वस्माहुर्बलान् चतुर्मुखादीन् न बाधसे इति परिहारः । शोभनाः धीवराः सुधीवराः तेषां प्रौढानां कैवर्तानामित्यर्थः । गुणजालं सूत्रमयमानायं लुनासीति विरोधः । सुधियां विदुषां वराः तेषां प्रकृतिबन्धं वियोजयसीति तदभावः ॥

 एधयसे नैधयसे पुरा विराधं भुजप्रतापाग्नौ । आशयसे नाशयसे क्रव्यादः खरमुखांश्च रघुवीर ॥