शेषाचलाधिनेताऽप्यनघाशेषाचलाधिनेताऽसि । अपिच विभासुररूपोऽप्यविभासुररूप एव भगवंस्त्वम् ॥ १०९५ ॥
शेषाचलाधिनेता न भवसीति विरोधः अशेषायाः अचलायाः भुवः अधिनेतेति व्युदस्तः । अविभासुररूपः विभासुररूपो न भवसीति विरोधः अविः भानुः स इव भासुररूप इति निरस्तः । अन्यत्सुगमम् ॥
मेरुनगभासुरोऽपिच नमेरुनगभासुरो मृगेन्द्रगिरिः । अतिघनजपावनाढ्योऽप्यजपावन एव चित्रमिदम् ॥ १०९६ ॥
नमेरुनगाः छायातरवः तैर्भासुरः । अजस्य ब्रह्मणोऽपि पावन इति च विरोधपरिहारः ॥
शिशिरोऽप्यशीतकश्शुचिरसितश्श्लक्ष्णोऽप्य सूक्ष्म एवायम् । सुरभिरपि गन्धशून्यो द्विरसनधरणीधरेन्द्रमूर्धन्यः ॥ १०९७ ॥
शिशिरः शीतलोऽप्यशीतकः शीतरहित इति विरोधः अविद्यमानं शीतं शीतगुणो यस्येति विग्रहः ‘शेषाद्विभाषा' इति कप् । दयाशीतलः अनलस इति परिहृतः ‘शीतोष्णाभ्यां कारिणि’ इति शीतशब्दात्करोतीत्यर्थे कन् । ‘आलस्यश्शीतकोऽलसोऽनुष्णः' इत्यमरः । शुचिरपि शुभ्रोऽपि असितः अशुभ्र इति विरोधः । शुचिः अपहतपाप्मा अत एव असितः अबद्धः कर्मबन्धरहित इति समाहितः । सिनोतेर्बन्धनाथकात्क-