पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
284
अलंकारमणिहारे

 उदग्रं उच्छ्रितं अदः इदं फणिराजगिरेः अग्रं नीललोहितश्चासौ कपाली च तस्य भावः प्रख्यातश्चासौ नललोहितकपालिभावश्च तस्माद्धेतोः, पक्षे प्रख्याताः नीलानां इन्द्रनीलमणीनां लोहितकानां पद्मरागाणां च पालयः पङ्क्तयः यस्मिंस्तत् प्रख्यातनीललोहितकपालि । तस्य भावात् तत्त्वात् ‘लोहितान्मणौ' इति कन् । 'शोणरत्नं लोहितकः पद्मरागः' इत्यमरः । स्फुरत् इति योजना । प्रकाशमानमित्यर्थः । अत एव उग्रत्वं रुद्रत्वं तत्तौल्यमिति यावत् । अनुग्रतां अरुद्रतां च उपैतीति विरोधः अनुग्रतां अरौद्रतां सौम्यतामुपैतीति परिहारः । पक्षे--अग्रं श्रेष्ठं उदग्रमिति पदं अदस्फुरदिति समस्तं पदं दकारेणाप्रकाशमानं सत् उग्रत्वमुपैति उग्रशब्दो भवतीत्यर्थः । अथापि अनुग्रतां उग्र इति वर्णद्वयविरहिततामिति विरोधः । उग्रशब्दे उक्तवर्णसद्भावात् । अनु पश्चात् ग्रं ग्र इति वर्णसमुदयो यस्य तत्तथोक्तं तस्य भावं तत्तामिति परिहारः ॥

 पदलग्नं नाथ सदापदलग्नं संतनोषि मनुजं त्वम्। हन्त पदानाश्रितमपि सदापदाश्रितमुदारगुणजलधे ॥ १०९४ ॥

 पदलग्नं स्वचरणाश्रितं अपदलग्नं स्वचरणानाश्रितं संतनोषीति विरोधः । सदा आपदलग्नमिति छेदः । विपदनाश्रितमिति परिहारः । किंच सदा पदानाश्रितं स्वचरणानासक्तं पदाश्रितं स्वचरणानुरक्तं संतनोषीति विरोधः । सदा आपदाश्रितं विपद्युक्तमिति परिहारः ॥