पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
283
विरोधालङ्कारसरः (३५)

अच्युतात् च्युतशब्दो भावे क्तान्तः अवर्णच्युतेरित्यर्थः । सुमोक्षश्च सुमोक्षशब्दश्चासीत् तथा दृश्योऽभूदिति भावः । असुरमहोक्षशब्दो रेफेण अह् इति स्वरव्यञ्जनरूपवर्णाभ्यां च विश्लिष्टअसुमोक्ष इति निष्पद्यमानः अनन्तरं प्राथमिकेन अवर्णेन विधुरस्सन् सुमोक्ष इति दृश्यो भवतीति परिनिष्पन्नोऽर्थः । प्रकृताप्रकृतश्लेषसंकीर्णोऽयम् ॥

 श्वस्थितिभाग्यं प्राप्ताववेक्षितोपेक्षितौ त्वया मनुजौ । अश्वस्थितिभाग्यजुषौ तथाऽपि चित्रं पृदाकुशिखरीन्दो ॥ १०९२ ॥

 श्वः स्थितिर्यस्य तत् श्वस्थिति श्वो विद्यमानं चिरकालावस्थायीति यावत् । भाग्यं शुभकर्मपरिपाकभूतमैश्वर्यं अन्यत्र शुनां स्थितिः मर्यादा अवस्थानं वा तद्रूपं भाग्यं अशुभकर्मपरिपाकभूतं दारिद्र्यमित्यर्थः । ‘भाग्यं कर्म शुभाशुभम्' इत्यमरः । तत् प्राप्तौ । तथाऽपि अश्वस्थितिभाग्यजुषौ इति विरोधः । अश्वानां स्थितिः अवस्थानं तद्रूपं भाग्यं अश्वारोहणैश्वर्यं उपलक्षणमिदं गजान्तैश्वर्यस्य । पक्षे-- श्वस्थिति न भवतीत्यश्वः स्थिति अत्यल्पकालिकमित्यर्थः । भाग्यं जुषेते इति तथोक्तौत्वत्कटाक्षितश्चिरकालानुभाव्यं चतुरङ्गबलैश्वर्यं लभते, त्वदुपेक्षितस्तु शुनकादिनिहीनजन्तुसंश्रयणादिरूपदौर्भाग्यं तदप्यत्यल्पकालिकमेवानुभवतीति निर्गळितोऽर्थः ॥

 प्रख्यातनीललोहितकपालिभावाददस्फुरदुदग्रम् । अग्रं फणिराजगिरेरुग्रत्वमुपैत्यनुग्रतां चाहो ॥ १०९३ ॥