पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
281
विरोधालङ्कारसरः (३५)

तदैव आपयिता धनुः प्रापयिता च बाणं धनुषि संदधत्सन्नित्यर्थः । पुरा सन् प्रशस्तो वेषो यस्यास्सा क्षितिभूः भूमिजा श्रीः सीतात्वेनावतीर्णां लक्ष्मीः ताम् । पक्षे-- द्वेषेण सहिताः सद्वेषाः वैरिणः तेषां क्षितौ तत्संबन्धिन्यां भूमौ जाता या श्रीः संपत् तां हस्तेऽकरोः पर्यणैषीः । पक्षे--वशेऽकार्षीरित्यर्थः ॥

 त्वय्यभिमुखोऽनभिमुखो हिरण्यभाक्स्यादरण्यभाक्च श्रीः । भेदो यद्यप्यनयोर्भवत्यथापि ह्यभेद इति चित्रम् ॥ १०८९ ॥

 हे श्रीः! त्वयि अभिमुखः हिरण्यभाक् सुवर्णोपलक्षितमहाविभवभाक् स्यात् । अनभिमुखस्तु अरण्यभाक् म्यात् भ्रष्टैश्वर्यो वनं प्रविशेदित्यर्थः । एवमनयोः भेदः उक्तरीत्या वैलक्षण्यं यद्यपि भवति भवत्येव ‘यद्यपीत्यवधारणे' इति केशवः । तथाऽपि अभेद एव भवति हीति विरोधः । ह्यभेद इति समस्तं पदम् । हिवर्णावर्णाभ्यामेव भेदो भवतीति परिहारः। हिरण्यभाक् अरण्यभाक् इति शब्दयोः हि अ इति वर्णाभ्यामेव भिदा अन्यानुपूर्व्योस्तुल्यत्वादिति भावः । शब्दार्थतादात्म्यमूलकोऽयं श्लेषेण विरोधः ॥

 दामोदरहिततां यो न विन्दते ननु मुकुन्दचन्द्रमुखि । विस्माययति समस्तानेष सदामोदरहिततां विन्दन् ॥ १०९० ॥

 ननु मुकुन्दचन्द्रमुखि! यः दामोदरस्य हिततां न विन्दते सः दामोदरहिततामिति छेदः । स एषः दामोहरहिततां विन्दन् समस्तान् विस्माययतीति विरोधः । परिहारस्तु सदामो-

 ALANKARA II
36