पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
277
विरोधालङ्कारसरः (३५)

रोधो यथा--

 दयमानस्सकलात्मसु विशन्नपि घृणां विमुञ्चसि गुणाब्धे । कामं सृजन्नपीशः कामं ब्रह्मासि तदपि बत भगवन् ॥ १०८४ ॥

 अत्र दयापूर्वकसर्वात्मान्तःप्रवेशक्रियायाः घृणां कृपां मुञ्चसीति क्रियया विरोधः । घृणां वात्सल्यातिशयात्कष्टभूतदेहान्तरवस्थानाज्जुगुप्सां मुञ्चसि भोग्यमेव पश्यसीति परिहारः । कामं कंदर्पं सृजन्नपीति क्रियायाः ईश इति शर्वरूपद्रव्येण विरोधः । आश्रितसर्वेप्सितार्थदाता भूतभव्येशान इति परिहारः । अत्र--

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥

इति श्रुत्यर्थोऽनुसंहितः । तदपि एवं शर्वोऽपि ब्रह्मा चतुर्मुखोऽसीति द्रव्ययोर्विरोधः । ब्रह्म स्वरूपेण गुणैश्चानवधिकातिशयबृहत् परं ब्रह्मेति परिहारः ॥

 एवं प्राचामनुरोधेन विरोधभेदाः प्रदर्शिताः । अत्र लक्षणे जात्यादीनामिति धर्ममात्रं विवक्षितं, उपलक्षणपरत्वात् । तेन 'यः किल बालकोऽपि पुराणपुरुषः विशुद्धमूर्तिरपि नीलाम्बुदनिभः जगद्धितकृदपि जगदहितकृत् अगोद्धारकोऽपि नागोद्धारकः' इत्यादौ सखण्डोपाधेरभावस्य च परिग्रह इत्याहुः । वस्तुतो जात्यादिभेदानामहृद्यत्वात् शुद्धत्वश्लेषमूलत्वाभ्यां द्विविध एवायम् । अत एव ‘आभासत्वे विरोधस्य विरोधाभास इष्यते, इत्येतावदेव सामान्यता लक्षणमभिहितं कुवलयानन्दे । तेन प्रदर्शयिष्यमाणानि पद्यानि सर्वाण्यपि विरोधाभासोदाहरणान्येव भविष्यन्ति ॥