पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
18
अलंकारमणिहारे

महापत्त्रि । भुवनेषु विख्यातम् । अच्युतं शुभकरं च धाम तेजः प्रभावो वा यस्य तत्तथोक्तम् । प्रेङ्खत् प्रोच्चलत् शार्ङ्गं यस्य तत्तथोक्तम् । महामहः दिव्यं तेजः ‘अथ यदतः परो दिवो ज्योतिः’ । इति श्रुतं परं ब्रह्म । इदं विशेष्यम् । पक्षे-- अच्युतस्य भगवतः शुभः कल्याणः यः करः हस्तः स एव धाम स्थानं तस्मिन् प्रेङ्खत् महत् महो यस्य तत्तथोक्तं शार्ङ्गं, इदं कर्तृ, जयतात् ॥

 यथावा--

 स जयतु सरसिजनयनस्सनातनीं गां सुरारिणाऽपहृताम् । उद्धर्तुमाविरासीन्महावराहस्त्वरान्वितो यः प्राक् ॥ ८२५ ॥

 अत्र स्तव्यत्वेन प्रस्तुतयोर्महावराहश्रीहयग्रीवयोः श्लेषः । तथाहि-- सुरारिणा हिरण्याक्षेण । पक्षे मधुनाम्ना कैटभाद्वितीयेन दैत्येन अपहृतां सनातनीं गां भुवं श्रुतिरूपां वाचं च । उद्धर्तुं यः प्राक् त्वरान्वितः ससंभ्रमः महावराहस्सन् । पक्षे महावराहः तु अरान्वित इति छेदः । तुशब्दोऽवधारणे । उद्धर्तुमित्यत्रान्वेतव्यः। उद्धर्तुमेवेत्यर्थः । अरान्वितः रेफानन्वितः महावराहः महावाहः हयग्रीवस्सन्नित्यर्थः । महावराहशब्दे रेफरूपव्यञ्जनमात्रोत्सारणे अवशिष्टस्य आकारस्य वकारोत्तराकारस्य च सवर्णदीर्घे महावाह इति निष्पत्तेरिति भावः । आविरासीत् । सः सरसिजनयनः जयतु । सरसिजनयन इत्यनेन 'महावराहस्फुटपद्मलोचनः’ इत्येतत्प्रत्यभिज्ञाप्यते ॥

 यथावा--

 वरमनघतरमधीशः पुराददे हन्त यस्सदामो