पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
262
अलंकारमणिहारे

तस्य हरे । यदि वा सकलपलाशिव्रजनाशयिताऽसि तदिह हेतुस्स्यात् ॥ १०५४ ॥

 हे हरे! सुरभौ वसन्तसमये शुभा श्रीः कुसुमादिसमृद्धिः यासां तथोक्ताः याः लताः ताभिः अञ्चितस्य युक्तस्य । पक्षे सुरभिः मनोहारिणी शुभा च या श्रीलता श्रीरस्यास्तीति श्रीलः सिध्मादित्वान्मत्वर्थीयो लच् ‘लक्ष्मीवान् लक्ष्मणश्श्रीलः इत्यमरः । तस्य भावः श्रीलता तया अञ्चितः तथोक्तस्य लक्ष्मीविशिष्टतया जगत्पूजितस्येत्यर्थः । तव न वनत्वं अवनत्वं विपिनत्वाभावः कथमिव । समृद्धलतान्वितत्वे वनत्वस्यावश्यंभावादिति भावः । अवतीत्यवनः तस्य भावः जगद्रक्षकत्वमिति तु वस्तुस्थितिः । यदि वा अथवा सकलाः ये पलाशिनः विटपिनः पलमश्नन्तीति पलाशिनः क्रव्यादाश्च तेषां व्रजस्य नाशयिता असि तत् पलाशिनाशनं इह तवावनत्वे हेतुः स्यात् । सकलतरुनिर्मूलयितृत्वमेव वनत्वाभावे कारणं स्यादिति भावः । पक्षे-- निखिलनिशिचरनिर्मूलयितृत्वस्यैव जगदवने हेतुत्वमिति भावः । अत्रापि पूर्वोदाहरण इव श्लेषोपजीवनेनैवाक्षेपनिषेधौ ॥


आक्षेपप्रकारान्तरम्.

निषेधो यो बाधितस्सन् विशेषं कंचिदाक्षिपेत् । वक्ष्यमाणोक्तविषयं तमाक्षेपं परे जगुः ॥

 यो निषेधो बाधितस्सन्नर्थान्तरपर्यवसितः कञ्चिद्विशेषमाक्षिपति सः निषेध इव निषेधः निषेधाभास इति यावत् ।