पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
261
आक्षेपालंकारः (३४)

 हे दशरथनन्दन! घनवराणां जलदश्रेष्ठानां शरधाराः जलधाराः तासां वर्षं वृष्टिः तदस्यास्तीति तथोक्तोऽपि । मत्वर्थीय इनिः। पक्षे अविरळतरविशिखपरंपरावर्षी णिनिः । शोषोऽस्य संजातः शोषितः शुष्कः अब्धिः सरो यस्मिन् सः । पक्षे शोषं प्रापितः अब्धिस्सागरो येन सः शुषेर्ण्यन्तात्कर्मणि क्तः । 'अब्धिर्ना सिन्धौ सरस्यपि’ इति मेदिनी । कथमासीः । इदमाश्चर्यम् । यज्जलदजलधारावर्षवतोऽपि शुष्कसरस्त्वमिति भावः । अथवा त्वं महांश्चासौ धन्वा च महाधन्वा महामरुप्रदेशः आसीः । नाश्चर्यमिदं यत्त्वयि जलदजलधारावर्षवत्यपि शुष्कसरस्त्वं तस्य मरुदेशस्वाभाव्यादिति भावः । महत् धनुः यस्य स तथोक्तः उद्दण्डकोदण्ड इति वस्तुस्थितिः । 'धनुषश्च' इति समासान्तोऽनङ् । महत् धन्व यस्येति वा 'धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च' इति मेदिनी । ‘चापमानय सौमित्रे शरांश्चाशीविषोपमान् । सागरं शोषयिष्यामि' इत्याद्युक्तरीत्या उद्यतोच्चण्डकोदण्डदण्डस्य महावीरधौरेयस्य तव अविरळशरपरंपरावर्षेण सागरशोषणं न विस्मयावहमिति भावः । अत्र घनशरादिशब्दप्रतिपाद्यजलदजलसान्द्रबाणादिरूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायोपजीवनेन जलदजलधारावर्षवत्त्वेऽपि शुष्कसरस्त्वं कथमित्याशङ्कितस्यार्थस्य महाधन्वशब्दप्रतिपाद्यमहामरुमहाचापरूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायावलम्बनजनितमहामरुदेशत्वलक्षणतत्स्वरूपविमर्शनेन प्रतिषेधः । विभावनाविशेषसंकीर्णोऽयम् ॥

 यथावा--

 अवनत्वं तव कथमिव सुरभिशुभश्रीलताञ्चि-