पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
257
आक्षेपालङ्कारसरः (३४)

 यथावा--

 पाञ्चाल्यास्त्वत्कृपया भगवन् प्रादुस्थितं दुकूलमपि । अगमत्कुतः कुरूणां कुकूलतां तल्लिपिस्तथा ह्यथवा ॥ १०४९ ॥

 हे भगवन्! त्वत्कृपया प्रादुस्थितं आविर्भूतं सत् स्थितं दुश्शासनकृतवसनापहारावसरे इति भावः । पाञ्चाल्याः दुकूलमपि कुरूणां दुर्योधनादीनां कुतो हेतोः कुकूलतां शङ्कुकीर्णश्वभ्रतुल्यतां तुषानलतुल्यतां वा अगमत् । उद्वेलभगवत्कृपाजन्यमतिमनोहारि दुकूलमपि तेषां निपातास्पदं दाहहेतुर्वा कथमासीदाश्चर्यमेतदिति भावः । ‘कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले' इत्यमरः । 'दुर्गसमीपे प्रतिपक्षसेनासंचारपरिहाराय कृते तीक्ष्णलोहादिशङ्कुनिचिते महागर्ते नपुंसकलिङ्गः कुकूलशब्दः तुषाग्नौ तु पुल्लिङ्गः' इति टीकासर्वस्वकारः ॥ अथवा तल्लिपिः तेषां कुरूणां ललाटलिपिः तथाहि तथैव । हिशब्दोऽवधारणे । जगदानन्दनिदानस्यापि वस्तुनो नाशहेतुतया दर्शनं

तत्कर्मानुगुणविधिलिखितललाटलिपिरेखानुसारीति नात्र विस्मयनीयं किंचिदस्तीति भावः ॥ पक्षे दुकूलं दुकूलपदं प्रादु अविद्यमानो दुः दुवर्णो यस्य तत् अदु प्रकर्क्षेण अदु प्रादु स्थितं दुवर्णविधुरतया स्थितं कुतः कुवर्णात् दुवर्णस्थानविहितादिति भावः । ‘न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेत्' इत्यत्र गिरापदं प्रतिषिध्य विधीयमानमिरापदं यथा गिरापदस्थान एव भवति तथेहापि दुवर्णं निषिध्य विधीयमानः कुवर्णः तत्स्थान एव भवतीति ध्येयम् । अयमर्थः प्रागेवोक्तः । कुकूलतां कुकूलशब्दतां अगमत् । तल्लिपिः दुकारापनयनपूर्व-

 ALANKARA II
33