पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
255
आक्षेपालङ्कारसरः (३४)

शिररुचेः सत्पतित्वात् ‘सतां माने म्लाने मरणमथवा दूरगमनम्’ इत्युक्तरीत्या जीवितसंदेहस्य संभावितस्य जैवातृकशब्दगतार्थश्लेषमहिम्ना आयुष्मत्तां विचार्य प्रतिषेधो वर्णितः । श्लेषसंकीर्णत्वं पूर्वस्माद्विच्छित्तिविशेषः ॥

 यथावा--

 देव कथमुदवहस्तामुदधेः पिङ्गळतया श्रुतां कन्याम् । सा हि निषिद्धा शास्त्रैरथवा स्वैरस्य विधिनिषेधौ क्व ॥ १०४७ ॥

 हे देव! पिङ्गळायाः भावः पिङ्गळता तया ‘त्वतलोर्गुणवचनस्य’ इति पुंवद्भावः । श्रुतां निशमितां ख्यातामिति यावत् । ‘पिङ्गळां हेममालिनीम्' इति श्रुतिप्रसिद्धामिति हृदयम् । उदधेः कन्यां कथं उदवहः पर्यणैषीः । कुतोऽसावाक्षेप इत्यत आह सा हीति । सा पिङ्गळवर्णा कन्या शास्त्रैः निषिद्धा,

नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचाटां न पिङ्गळाम् ॥

 इत्यादिमन्वादिस्मृतिभिरुद्वाहे प्रतिषिद्धा । हीति हेतौ, प्रसिद्धौ वा । स्वयमेव समाधत्ते--अथवेति ॥ अथवा स्वैरस्य निरवग्रद्दस्य पक्षे ‘स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः’ इत्युक्तरीत्या अपर्यनुयोज्यस्वातन्त्र्यस्येत्यर्थः । विधिनिषेधौ क्व एकत्र निरंकुशत्वात् । अन्यत्र अकर्मवश्यत्वादिति भावः । अत्र पिङ्गलवर्णकन्योद्वाहनिषेधकशास्त्रपर्यालोचनामूलकस्याक्षेपस्य स्वैर-