पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
248
अलंकारमणिहारे

तन्मते एवं लक्षणश्लोकः.

स्तुत्या निन्दा निन्दया वा स्तुतिर्भिन्नैकगोचरा ।
व्यङ्ग्या विभिन्नविषया स्तुत्या व्याजस्तुतिस्स्तुतिः ॥

 स्तुत्या निन्दायाः निन्दया स्तुतेर्वा भिन्नविषयायास्समानविषयाया वा व्यङ्ग्यतायां चत्वारः प्रकाराः । भिन्नविषयायाः स्तुत्या स्तुतेर्व्यङ्ग्यतायां त्वेकः प्रकार इति पञ्चधा व्याजस्तुतिरित्यर्थः ॥

 भिन्नविषयत्वे स्तुत्या निन्दाभिव्यक्तिर्यथा--

 धन्याः खगा मृगा अपि वन्या एते नगाश्च नागाश्व । मान्या ये माधवपदविन्यासपवित्रिते वसन्ति गिरौ ॥ १०३७ ॥

 अत्र मृगाधिराजनगावासिनां खगादीनां धन्यतास्तुत्या अतद्विधानामधन्यतारूपनिन्दा व्यज्यते ॥

 इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति दण्डी ।

यदाह--

अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः ।
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥
अर्थै (न्नै, रयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ।
सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥

इति । वस्तुतस्तु–'अत्र व्याजस्तुतिरित्येवयुक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषसद्भावात् । अन्यथा