पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
247
व्याजस्तुतिसरः (३२)

परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥
समोऽहं सर्वभूतेषु सर्वस्य शरणं सुहृत् ॥

 इत्युक्तरीत्या सर्वसुहृत्त्वेन स्तुतिरवगम्यते । इयं प्रागुक्तहिताहितवृत्तितौल्यलक्षणतुल्ययोगिताविशेषपरिपोषिता । एवं ‘शपतां चैद्यादीनाम्’ इति तुल्ययोगिताप्रकरणोदाहृतपद्येऽपीयं व्याजस्तुतिर्द्रष्टव्या ॥

 इयं च व्याजस्तुतिर्यस्यैव वस्तुनः स्तुतिनिन्दे प्रथममुपक्रम्येते तस्यैव चेन्निन्दास्तुत्योः पर्यवसानं स्यात्तदा भवति । अन्यस्य स्तुत्या निन्दया वा अन्यनिन्दास्तुत्योः पर्यवसाने न प्रसरेदिति प्राचामालंकारिकाणां समयः ॥

 दीक्षितास्तु-- स्तुतिनिन्दयोर्निन्दास्तुतिभ्यामेकविषयतया गम्यत्वे द्वौ प्रकारौ । भिन्नविषयतया गम्यत्वे च द्वौ प्रकारौ । अन्यस्तुत्याऽन्यस्तुत्यभिव्यक्तौ त्वेकः प्रकार इत्येवं पञ्चविधां व्याजस्तुतिमभिप्रयन्तस्तथैवोदाजह्रिरे । अयमभिप्रायः— व्यक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः' इति लक्षणे निन्दास्तुतिभ्यामित्यत्र स्तुतिनिन्दयोरित्यत्र च इतरेतरयोगो न विवक्षितः । तथाच निन्दया स्तुतेः स्तुत्या निन्दायाः स्तुत्या स्तुतेश्च व्यक्तिर्व्याजस्तुतिरित्यर्थः । प्रथमो व्याजेन स्तुतिरिति, चरमयोर्व्याजरूपा स्तुतरिति च व्युत्पत्तेः । अत एव व्याजस्तुतिपदार्थानुगमाभावान्निन्दया निन्दाभिव्यक्तिर्व्याजनिन्देत्यलंकारान्तरमुक्तम् । एवमाद्ये प्रकारद्वये स्तुतिनिन्दयोस्समानविषयत्वभिन्नविषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति चत्वारो भेदाः । अन्यस्तु भिन्नविषयस्तुतिक एक एवेति पञ्च भेदाः । लक्षणं तु व्याजनिन्दाभिन्नत्वे सति स्तुतिनिन्दान्यतरपर्यवसायिस्तुतिनिन्दान्यतरत्वं सर्वानुगतमिति ध्येयमिति ॥