पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
241
पर्यायोक्तसरः (३१)

 अमी लोकाः अत्र ‘स यदि पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठन्ते’ इति श्रुतेरर्थोऽनुसंहितः । अत्र भगवद्भक्तानां यथेष्टलोकसृष्टिरूपेण कार्येण तत्कारणं ‘स स्वराड्भवति' इत्याद्युक्तं मुक्तैश्वर्यं गम्यते ॥

 यथावा--

 विचरन्विपिनोद्देशे सहस्रनयनं सहस्रकिरणं च । शोकेनानन्देन च सास्रं यो व्यधित सेव्य एष पुमान् ॥ १०२६ ॥

 अत्र सुत्राम्णोऽर्यम्णश्च सास्रावरूपकार्येण वाच्येन सुतात्ययरूपं सुताभ्युदयरूपं च कारणं गम्यते । अयं वक्ष्यमाणयथासंख्यसंकीर्ण इति पूर्वस्माद्विशेषः ॥

 तदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य गम्यत्वे ॥

 यथा--

 उत्पलमहोत्पलव्रजविकासिनी वामदक्षिणे नयने । शिशिराशिशिरे यस्य प्रशमयतु स तापमेष जडतां च ॥ १०२७ ॥

 स एषः तापं आध्यात्मिकादिकं संज्वरं च । जडतां शैत्यं अज्ञतां च प्रशमयतु । अत्रोत्पलमहोत्पलविकासकारिशिशिराशिशिरवामदक्षिणविलोचनत्वेन वाच्येन न कार्येण नापि कारणेन केवलं सहचरितेन चन्द्रसूर्यविलोचनत्वं गम्यते । अत्र हि वाच्यव्यङ्ग्ययोः केवलं सहचरितत्वं संबन्धः न तु कार्यकारणभावरूपः एवं प्रागुपदर्शितेषु ‘यस्य विहाराहार्यः’ इत्याद्युदाहरणेष्वपि यथायोगं संबन्धो द्रष्टव्यः । इदं यथासंख्यपरिकराभ्यां संकीर्णम् ॥

 ALANKARA II
31