पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
240
अलंकारमणिहारे

माधवीं माधवप्रियाम्' इति श्रुतेः । सारसनं मेखला । वसनं अंशुकं वा अभूत् । 'भूतधात्र्यब्धिमेखला । निधानगर्भामिव सागराम्बराम्' इत्युभयथाऽपि प्रसिद्धेरिति भावः । अत्र कौस्तुभाभरणत्वं श्रीपतित्वं भूवल्लभत्वं च व्यङ्ग्यम् । इदं तुल्ययोगितादिसंकीर्णम् ॥

 अस्मिंश्चालंकारे व्यङ्ग्यं वाच्यपरं अप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्ग्यपरम् । तेनायमलंकारो वाच्यसिद्ध्यङ्गगुणीभूतव्यङ्ग्यभेद इति ध्वनिकारानुयायिनः । अयं चालंकारः क्वचित्कारणेन वाच्येन कार्यस्य गम्यत्वे क्वचित्कारणेन कार्यस्य क्वचिदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति त्रिविध इति जगन्नाथादयः ॥

 तत्र कारणेन वाच्येन कार्यस्य गम्यत्वे यथा--

 यैरर्प्यन्ते कुसुमान्यसमानि रमासख त्वदीयपदे । तैरुप्यन्ते स्वपदे स्वैरं कल्याणबीजानि ॥

 त्वदीये तावके पदे चरणे त्वदीयानां भागवतानां चरणे वा । स्वपदे स्वस्थाने स्वव्यवसितेऽर्थे स्ववस्तुनि वा । अत्र बीजावापेन कारणेन अभ्युदयः कार्यरूपो गम्यते ॥

 कार्येण कारणस्य गम्यत्वे यथा--

 कामयते यान् लोकांस्तामरसविलोचन त्वदीयजनः । सपदि समुत्तिष्ठन्ते संकल्पादेव देव तस्यामी ॥ १०२५ ॥