पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
236
अलंकारमणिहारे

णाधीयमानमिति वेदरूपतया भङ्ग्यन्तरेणाभिहितम् । वाहनादीनां चतुर्णामधीयमानत्वं च ‘सुपर्णोऽसिगरुत्मान्, सैषा त्रय्येव विद्यातपति’ इत्याद्युक्तरीत्या त्रयीमयत्वादौपचारिकम् । यद्वा अत्रापि भगवानेव स्वासाधारणरूपेण गम्यः त्रयीमयवाहनत्वादिना भङ्ग्यन्तरेणाभिधीयत इति ध्येयम् ॥

 यथावा--

 दशशतभुजपरिरम्भक्षोभं व्यपनीय बलिसुतवधूनाम् । कल्याणाशासनपदमासीत्तासां य एष वीरोऽव्यात् ॥ १०१६ ॥

 अत्र बाणासुरबाहासमुदयलवितृतया व्यङ्ग्यो भगवन्वासुदेवः ततोऽपि चारुतरेण दशशतभुजपरिरम्भनिष्पीडनापनयनरूपमहोपकारप्रीततद्वधूवितीर्णमङ्गळाशासनगोचरत्वरूपेण भङ्ग्यन्तरेणाभिहितः ॥

 यथावा--

 नैकशतबाहुवहनश्रममपनयतिस्म कार्तवीर्यस्य । यत्प्रहरणमेष कृतो येन हृतौजास्स विजयतां जगति ॥ १०१७ ॥

 अत्र कार्तवीर्यार्जुनभुजसहस्रच्छेत्तृत्वं विवक्षितोऽर्थः न ताद्रूप्येणाभिहितः । अपितु तद्बाहुभारवहनश्रमापनेतृत्वेनाकारेण । यद्वा स्वासधारणेनाकारेण गम्यो भगवान् दाशरथिः कार्तवीर्यभुजभारश्रमापनेतृपरशुधरतेजोऽपहर्तृत्वरूपेण भङ्ग्यन्तरेणाभिहितः । न च कार्तवीर्यभुजच्छेत्तृपरशुधरजेतृत्वरूपव्यङ्ग्यमादायैव गदितुमर्हं पर्यायोक्तं न तु विशेषणसामर्थ्यलभ्यदाशरथि-