पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
234
अलंकारमणिहारे

 अयमलंकारो दीक्षितोपज्ञम् । प्राञ्चस्सर्वेऽप्येनमप्रस्तुतप्रशंसायां सारूप्यनिबन्धनायामेवान्तरभावयन्नित्यप्रस्तुतप्रशंसायामवोचाम ॥

इत्यलंकारमणिहारे प्रस्तुताङ्कुरसरस्त्रिंशः.


अथ पर्यायोक्तसरः.


 पर्यायोक्तं त्वन्यभङ्ग्या कथितं चेद्विवक्षितम् ॥

 येन रूपेण विवक्षितोऽर्थः तदतिरिक्तप्रकारोऽन्यभङ्गी भङ्ग्यन्तरमित्यर्थः । रसगङ्गाधरेऽपि ‘विवक्षितस्यार्थस्य भङ्ग्यन्तरेण प्रतिपादनं पर्यायोक्तम्’ इत्युक्तम् । केनचिद्रूपेण व्यञ्जनया लभ्यस्यार्थस्य ततोऽपि चारुतरेण रूपेण यदभिधया प्रतिपादनं तत्पर्यायोक्तमिति तदर्थः । न चैवं ध्वनेरेवायं विषयस्स्यादिति वाच्यं, तत्र वाच्यव्यङ्ग्ययोर्भेदात् । एवंच यद्वयङ्ग्यं वस्तु व्यङ्ग्यत्वाकारादपि चारुतरेणाकारान्तरेण शब्देनाभिधीयते तत्पर्यायोक्तमिति पर्यवसानात् वाच्यरूपापेक्षया व्यङ्ग्यरूपस्य चारुत्वाभावान्न ध्वनिविषयतेति दिक् । पर्यायोक्ते वाच्यस्य प्राधान्यं, अप्रस्तुतप्रशंसायां तु गम्यस्येति विवेकः । पर्यायेण भङ्ग्यन्तरेणोक्तं व्यङ्ग्यं यत्रेति व्युत्पत्तेरन्वर्थनामधेयमिदम् ॥

 यथा--

 यस्य विहाराहार्यः पाराशर्यस्य पाणिनेश्चापि । सूत्रस्य भाष्यमतनोत्स विनोदी मे मनो धिनोतु पुमान् ॥ १०१३ ॥