ण्यादिसमृद्धिर्व्यज्यते । साऽपि वर्णनीयतया प्रस्तुतैव । अत्र जन्यजनकभावस्संबन्धः । एवं नयनमहामीनराजविहारौपयिकतया ह्रदतादात्म्यमापादिताया वदनरुचेस्समृद्धिरनवधिकेति द्योत्यते । साऽपि प्रस्तुतैव । अत्राधाराधेयभावः ॥
यथावा--
सर्वंकषा मनीषा कीर्तिः कूलंकषा तथा ककुभाम् । अभ्रंकषा गृहाळी त्वद्भक्तानां मृगेन्द्रशैलेन्दो ॥ १०११ ॥
अत्र भगवतो लोकोत्तरत्वप्रकटनाय तन्महौदार्यवत्तत्कार्याणि तद्भक्तजनसंपत्सारस्वतादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन तन्महौदार्यमवगम्यत इति कार्यकारणभावसंबन्धनिबन्धनोऽयं प्रस्तुताङ्कुरः ॥
यत्र कार्यमुखेन कारणस्यावगतिरपि पद्ये निबध्यते न तत्रायमलंकारः । किंत्वनुमानमेव ॥
यथा--
कण्ठे नॄणां हारा उपकण्ठे सुरुचिरानना दाराः । सुकुमाराश्च कुमारा ब्रुवते लक्ष्मीदृशो महोदाराः ॥
महोदारा इत्येतत् द्वितीयान्तस्य लक्ष्मीदृश इत्यस्य विशेषणम् । इदं कर्म, हारा इत्यादयस्तु कर्तारः । अत्र मुक्ताहारादिसमृद्धिरूपकार्येण लक्ष्मीदृशां कारणत्वावगतिर्वदतीत्यनेनाविवक्षितवाच्येनोपनिबद्धेत्यनुमानालंकारः ॥