पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
232
अलंकारमणिहारे

 बुद्बुदनिभाः याः इतिच्छेदः । ललाटे भवोऽलंकारो ललाटिका ‘तत्र भवः' इत्यधिकारे ‘कर्णललाटात्कनलंकारे’ इति कन् । अत्र वर्णनीयत्वेन प्रस्तुतानां भगवल्ललाटिकामुक्ताफलानां वदनलावण्यसुधाम्बुधिबुद्बुदतया संभावनात्तत्कारणीभूतवदनलावण्यसमृद्धिरनवधिका प्रतीयते । साऽपि वर्णनीयत्वेन प्रस्तुतैव । अत्र वदनलावण्यसमृद्धेः तद्बुद्बुदत्वेन संभाव्यमानानां मौक्तिकानां च अवयवावयविभावः प्रकृतिविकृतिभावो वा संबन्धः ॥

 यथावा--

 अतिवेलतया प्रवहन्नभितो हरिदिव्यविग्रहद्वीपम् । श्रीतनुलावण्याम्बुधिपरिवाहः पीतमम्बरं नूनम् ॥ १००९ ॥

 अत्र वर्णनीयत्वेन प्रस्तुतस्य पीताम्बरस्य लक्ष्मीदिव्यविग्रहलावण्याम्बुधिपरीवाहत्वोत्प्रेक्षणेन निर्भरसलिलदुर्भरतटाकतत्परिवाहनिमित्तभूता तद्दिव्यविग्रहे अमान्ती तल्लावण्यसमृद्धिर्द्योत्यते । अत्रापि लावण्यसमृद्धेः तत्परिवाहतादात्म्यापन्नपीताम्बरस्य च एकदेश्येकदेशभाव एव संबन्धः ॥

 यथावा ममैव प्रपन्नानन्दस्तवे--

 वदनरुचिह्रदविहरन्नयनमहामीनराजनिष्ठ्यूतम् । नासाविवरविलग्नं नूनं ध्यायामि मौक्तिकं देव्याः ॥ १०१० ॥

 अत्र वर्णनीयत्वेन प्रस्तुताया नासामौक्तिकमणेः प्रसवितृत्वौपयिकमीनतादात्म्यापन्नस्य श्रीदिव्यनयनस्य तदुचितलाव-