पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
226
अलंकारमणिहारे

अथ प्रस्तुताङ्कुरसरः.


 प्रस्तुतस्य प्रस्तुतेन व्यञ्जने प्रस्तुताङ्कुरः ॥

 यत्र प्रस्तुतेन वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताङ्कुरनामाऽलंकारः । तथाच प्रधानभूतप्रस्तुतान्तराभिव्यञ्जकं प्रस्तुतवर्णनं प्रस्तुताङ्कुरालंकार इति सिद्धम् । प्रस्तुतस्याभिव्यञ्जकत्वादङ्कुर इवाङ्कुर इति व्युत्पत्तेरन्वर्थनामाऽयम् ॥

 यथा--

 अयि गिरितटि समयेऽस्मित् घनमिममुद्बर्हिबर्हमाश्लिष्य । न किमपि वेत्सि त्वय्यप्यतिचपलोऽयं कियच्चिरं स्थाता ॥ १००२ ॥

 इह प्रावृषि वनविहारावसरे श्रीकृष्णपरिरम्भसुखपारवश्येन तृणीकृतान्यवनितां कांचिद्गोपललनां प्रति तेन पूर्वं विप्रलब्धायाः कस्याश्चिद्गोपिकाया वचने गिरितटीं संबोध्य एवमाहेति वाच्यार्थस्य प्रस्तुतत्वम् । न चानामन्त्रणीयामन्त्रणेन वाच्यासंभवादप्रस्तुतमेव वाच्यमिह सदृशप्रस्तुतद्योतनाय निर्दिष्टमिति वाच्यम्, ‘कर्णिकार त्वया दृष्टा, वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती’ इत्यादौ चित्तविक्षेपादिभिरनामन्त्रणीयामन्त्रणस्यापि दर्शनेन तस्यातिमात्रमसंभावितत्वस्य दुर्वचत्वात् । एवं प्रस्तुतेन गिरितटीकर्मकोपालम्भरूपवाच्यार्थेन वक्त्र्यास्तस्याः अतिचपलममुं नन्दनन्दनमुपगूह्य धन्यंमन्यतयाऽन्याः किमर्थम-