पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
224
अलंकारमणिहारे

 अत्र क्षीणराजादितदेकावलम्बिपुरुषादिवृत्तान्ते प्रस्तुते अप्रस्तुतप्रशंसैवेति निर्विवादम् । यदा तु सरोवृत्तान्तो राजवृत्तान्तश्चेत्युभयं प्रस्तुतं तदाऽपि प्रागुक्तदिशा सैव । यदा तु सरोवृत्तान्त एव प्रस्तुतस्तदा गुणीभूतराजवृत्तान्तरूपव्यङ्ग्येऽस्मिन्पद्ये कोऽलंकारः? न तावदप्रस्तुतप्रशंसा प्रस्तुतस्यैव प्रशंसनात् । नापि समासोक्तिः तज्जीवातोर्विशेषणसाम्यस्य सकलालंकारिकसंमतस्यात्राभावात् । न च विशेषणसाम्यप्रकार इव शुद्धसादृश्यमूलेऽपि तस्या एव प्रकारो वाच्यः । एकधर्मालीढत्वमन्तरेणैकालंकारत्वे सर्वेषामेकालंकारत्वापत्तेः । व्यवस्थापकैस्तद्भेदताया अनुक्तेश्च । अत एवालंकारसर्वस्वकारादिभिर्विशेषणवाचिशब्दसाम्यं संरक्ष्यैव समासान्तराश्रयणेन सादृश्यमूलत्वं प्रदर्शितं, न तु तदुपेक्ष्येति चेत्-- उच्यते । अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्य प्रशंसेति न तदर्थः । किंत्वप्रस्तुतेनेति । सा चार्थात्प्रस्तुतस्यैव । एवंच वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यङ्ग्यं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साऽप्रस्तुतप्रशंसेति तत्राप्यप्रस्तुतप्रशंसेति । न तु वाच्ये नैव व्यङ्ग्यमेव” इत्यभाणीत् । एवंच ‘पुरा यत्र स्रोतः’ इत्यादावप्यप्रस्तुतेन व्यक्तेन विपर्यस्तधनसन्तानादिसमृद्ध्यसमृद्धिकुटुम्बिसमाश्रयग्रामनगरादिनाऽर्थेन नदीस्त्रोतःपुलिनतरुघनविरलभावविपर्यासवद्वनरूपप्रस्तुतार्थस्य प्रशंसेति तत्राप्यप्रस्तुतप्रशंसैवेति तदाशयः ॥

 अलंकारसर्वस्वकारस्तु-- ‘यदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदपञ्चकमुद्दिष्टं तत्र द्वयोस्सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदाऽर्थान्तरन्यासाविर्भावः । सारूप्ययोस्तु वाच्यत्वे दृष्टान्तः। अप्रस्तुतस्य