पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
222
अलंकारमणिहारे

दोषोऽपि ‘रन्ध्रं तु दूषणे श्वभ्रे' इति मेदिनी । यत् यस्मात् श्रीनायकः श्रीनिवासः तं भजतीति तथोक्तः तद्भक्तिमानित्यर्थः । परस्य तस्यैव परमात्मनः गुणानां सार्वज्ञ्यसत्यसंकल्पत्वसौशील्यादीनां कल्याणगुणानां ग्रथने तद्विषयकग्रन्थरचने अग्रसरः प्राथमिकः भवसि । तत्तस्मात् असौ त्वं सुदृशां विदुषां हृद्यः हृदयप्रिय एव असि ‘हृदयस्य प्रियः' इति यत् । अत्र प्रथमेन पदेन ‘अपिचेत्सुदुराचारः' इत्यस्य, द्वितीयेन तृतीयेन च ‘भजते मामनन्यभाक् ’ इत्यस्य, चतुर्थपादखण्डेन 'साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः' इत्यस्य च गीतावचनस्य समग्रस्यार्थोऽनुसंहितः । अत्रातिवृत्तत्वसरन्ध्रत्वे मणिगणस्य न दोषः प्रत्युत ? अतिवर्तुलत्वस्य रन्ध्रवैशिष्ट्यस्य च हारघटनानुगुणत्वात् । तस्मात्तदंशे प्रतीयमानपुरुषविशेषाध्यारोपोऽपेक्ष्यः । श्रीनायकभाक्त्वपरगुणग्रहणाग्रसरत्वसुदृग्जनहृद्यत्वेषु न तदध्यारोप इति ध्येयम् ॥

 एवं काव्यप्रकाशाद्यनुरोधेनाप्रस्तुतप्रशंसा निरूपिता । रसगङ्गाधरकारस्तु-- 'अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साऽप्रस्तुतप्रशंसा’ इत्यप्रस्तुतप्रशंसां लक्षयित्वा 'इयं पञ्चधा, अप्रस्तुतेन स्वसदृशं प्रस्तुतं गम्यते यस्यामित्येका' इत्यादिना तस्याः पञ्च प्रकारान् प्रदर्श्य तदुदाहरणानि च प्रपञ्च्य "एवं पञ्चप्रकारेयमप्रस्तुतप्रशंसा प्राचामनुसारेण निरूपिता । वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति । यत्रात्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकारो गदितः । एवं यत्र स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येकः । यथा जलक्रीडाप्रकरणे भ्रमरकमलिन्यादिषु पुरस्स्थितेषु नायके च