पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
218
अलंकारमणिहारे

तान् । अन्यत्र बलस्य सामर्थ्यस्य भावः सत्ता अतिशयितः बलभावो येषां ते अतिबलभावाः ये अरयः वैरिणः दैत्यादयः तैः मुहुः असकृत् उदितः भङ्गः पराभवो येषां तान् । स्पष्टमन्यत् । अत्राप्रस्तुततुच्छकासारतदाश्रितमत्स्योपालम्भेन प्रस्तुतभगवदितरक्षुद्रदेवतदुपासकोपलम्भः प्रत्याय्यः । तत्र यथा अगभीरत्वं तुच्छत्वं च वाच्यप्रतीयमानयोरुभयोरप्याश्रयणानौचित्ये निमित्तं, न तथा अनुकूलभूरिदाशत्वातिबलभावारिमुहुरुदितभङ्गत्वे; यतोऽनुकूलभूरिदातृत्वं प्रतीयमानक्षुद्रदेवरूपार्थे न दोषः प्रत्युत गुण एवेति तदंशे वाच्यभूतकासारतादात्म्यमपेक्ष्यते । कासारेषु च अतिबलभावारिमुहुरुदि भङ्गत्वांशे प्रतीयमानक्षुद्रदेवतादात्म्यं, मारुतप्रभावहेतुकजलजनिततरङ्गत्वस्य कासारत्यागाननुगुणत्वात् प्रत्युत तदाश्रयणानुगुणत्वात् ॥

 यथावा--

 वाताशनानुयातामेतां सूनश्रियाऽतिविख्याताम् । भ्रमर किमर्थं भजसे भ्रमन्नरण्येषु केतकीं भ्रातः ॥ ९९७ ॥

 वाताशनैः व्याळैः मुनिभिश्च अनुयातां उपाश्रितां सूनानां प्रसूनानां श्रिया समृद्ध्या सूनया सुतरां ऊनया हीनया श्रिया संपदा अतिविख्यातां परदेवतापेक्षया अत्यल्पवैभवेति जगद्विदितामित्यर्थः । अत्र कस्यचित्पुरुषस्य परदेवतेतरक्षुद्रदेवताभजनं तव निष्फलमिति द्योत्यम् । तत्र वाच्यप्रतीयमानयोः केतकीक्षुद्रदेवतयोरुभयोरपि भजनानौचित्ये हेतुतयोपात्तं विशेषणमसंभवि । यस्मात् सूनश्रियाऽतिविख्यातत्वं केतक्यामदोषः । यावता गुण