पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
213
अप्रस्तुतप्रशंसासरः (२९)

लंकर्मीणे कविकुलसार्वभौमे च पर्यवस्यति । इयं च वक्ष्यमाणावज्ञालङ्कारसंकीर्णेति विच्छित्तिविशेषः ॥

 यथावा--

 न विशुष्यसि तपनकरैर्न च हृष्यसि हिमकरांशुभिरपि त्वम् । दुस्तरकाठिन्योऽसि प्रस्तर तव चरितविस्तरेणालम् ॥ ९८९ ॥

 अत्राप्रस्तुतेन प्रस्तरवृत्तान्तेन तत्सरूपस्य निन्दनीयतया प्रस्तुतस्य भूयोभिरपि भवतापैरनभितप्तस्यासकृद्भगवत्कथामृतश्रवणादिभिरद्रवच्चित्तस्य मूर्खमूर्धन्यस्य वृत्तान्तः प्रत्याय्यते ॥

 यथावा--

 पुष्कलकसीमगन्धा यूयं यत्रक्ववाऽपि जायेध्वम् । पुष्कलसौरभ्यान्वः पुष्यति हृदये स पुष्कराक्षोऽपि ॥ ९९० ॥

 पुष्कलकस्य सीमा पुष्कलकसीमा । पुष्कलको गन्धमृगविशेषः । यं गन्धमार्जार इत्याहुः । सीमा अण्डकोशः ‘अथ पुष्कलको गन्धमृगे’ इति 'सीमा घटस्थितिक्षेत्रेष्वण्डकोशेऽपिच स्त्रियाम्' इति च मेदिनी । ‘मनः' इति निषेधान्न नान्तलक्षणो ङीप् । तस्याः गन्धाः तत्र भवो गन्धद्रव्यविशेषः तस्य संबुद्धिः । अर्थस्यैकत्वेऽप्ययं शब्दो दाराः गृहा इतिवन्नित्यबहुवचनान्तः, 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः’ इत्यनुशासनात् । अत्र पुष्कलकसीमगन्धवृत्तान्तेनाप्रस्तुतेन निहीन-