पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
208
अलंकारमणिहारे

 अत्र चातकपोतकवृत्तान्तकीर्तनं तत्सरूपे सानुग्रहमभिमुखे सदाचर्ये तदधीने च भगवत्याभिमुख्यमुपेयुषि भवतापस्तव न चिरं स्थास्यतीति प्रपन्नाश्वासनवृत्तान्ते पर्यवस्यतीति सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसेयम् ॥

 यथावा--

 मणिनामभृतः कतिकति फणिनाथगिरीश दिशिदिशि न सन्ति । चिन्तारत्नत्वं ते किं तावदमी कदाऽपि विन्दन्ते ॥ ९८१ ॥

 अत्र चिन्तारत्नेतररत्ननिन्दा निन्दनीयत्वेन प्रस्तुतानां मितंपचफलवितरीतॄणां भगवदितरदेवताभेदानां निन्दायां पर्यवस्यतीतीयमपि सारूप्यनिबन्धनैव ॥

 श्लिष्टविशेषणाऽपीयं दृश्यते । यथा--

 अनुविद्धः पत्रिगणैरुच्छ्रितमानोऽतिभीमसत्त्वाढ्यः । संख्याग्रसरश्शूरस्सुप्रथनश्श्रीनिवासतामयते ॥ ९८२ ॥

 अत्र श्लिष्टैर्विशेषणैरप्रस्तुतशूरपुरुषस्तुतिः स्तव्यत्वेन प्रस्तुतस्य तत्सरूपस्य शेषाद्रेः स्तवे पर्यवस्यति । शूर इति विशेष्यमत्राश्लिष्टम् । पत्रिणां शराणां खगानां च गणैरनुविद्धः ताडितः अनुबद्धश्च । उच्छ्रितः मानः चित्तसमुन्नतिः अन्यत्र मानः प्रमाणं यस्य स तथोक्तः ‘मानश्चित्तोन्नतौ ग्रहे । क्लीबं प्रमाणे प्रस्थादौ' इति मेदिनी । भीमं भीमसेनं रुद्रं वा अतिक्रान्तं अतिभीमं यत् सत्त्वं बलं यस्य सः । पक्षे अतिभीमाः अतिघोराः सत्त्वाः व्याघ्रादिजन्तवः यस्मिन् स तथोक्तः ।